भाजपा नेत्रे संगीत सोमाय बांग्लादेशात् फोनद्वारा लब्धः मारयितुं समाह्वयः
लखनऊ, 05 जनवरीमासः (हि.स.)। भारतीयजनतापक्षस्य (भाजपा) नेता पूर्वविधायकश्च संगीतसोम नामकस्य व्यक्तेः बाङ्ग्लादेशात् दूरवाण्या धमकीलाभः अभूत्। अस्य प्रकरणस्य विषये तेन पुलिस्-संस्थायां प्रार्थना प्रस्तुताऽभवत्। भाजपा-नेता संगीतसोमः स्ववक्तव्यैः सदा
भाजपा नेता संगीत सोम


लखनऊ, 05 जनवरीमासः (हि.स.)।

भारतीयजनतापक्षस्य (भाजपा) नेता पूर्वविधायकश्च संगीतसोम नामकस्य व्यक्तेः बाङ्ग्लादेशात् दूरवाण्या धमकीलाभः अभूत्। अस्य प्रकरणस्य विषये तेन पुलिस्-संस्थायां प्रार्थना प्रस्तुताऽभवत्। भाजपा-नेता संगीतसोमः स्ववक्तव्यैः सदा चर्चायां तिष्ठति। अद्यतनदिनेषु बाङ्ग्लादेशे हिन्दूनां हत्या तेषु च क्रियमाणानां अत्याचाराणां सम्बन्धे तेन वक्तव्यं प्रदत्तम्।

तस्मिन्नयं अपि अभिप्रायः व्यक्तः यत् चलचित्राभिनेता शाहरुखखानस्य टीम् KKR इत्यस्या बाङ्ग्लादेशीयं तीव्रं गेंदप्रक्षेपकं मुस्तफ़िजुर्रहमानं भारतीयप्रधानक्रिडालीगे (IPL) अन्तर्भाव्य अनन्तरं विरोधात् ततः बहिष्कृत्य स्वीकृतनिर्णयेषु स्वप्रतिक्रियां दत्तवान्। शाहरुखखानं प्रति अपि तेन तीक्ष्णाः टीकाः कृताः। ततोऽनन्तरं सः बहुधा चर्चाविषयः जातः।

सोमवारे प्राते तस्मै बाङ्ग्लादेशी-सङ्ख्याभ्यः दूरवाणीनादाः प्राप्ताः, तेषु तं प्राणानां हान्याशंकया भयस्य संचेतना प्रदत्ता आसीत्। अस्य प्रकरणस्य विषये तेन पुलिसे प्रार्थना दत्ता।

---------------

हिन्दुस्थान समाचार