Enter your Email Address to subscribe to our newsletters

प्रयागराजः, ०५ जनवरीमासः (हि.स.)। प्रधानमन्त्री नरेन्द्र–मोदिना २८ दिसम्बरमासे ‘मन की बात’ कार्यक्रमे जनस्वास्थ्यस्य विषये भाषमाण: प्रतिजैविक–औषधानाम् अत्यधिक–प्रयोगे गम्भीरा चिन्ता व्यक्ता। सब: अवदत् यत् एषाम् औषधानां अतिक्रमित–सेवनेन शरीरस्य रोग–प्रतिरोधक–शक्तिः शनैः शनैः दुर्बला भवति।
अत्यधिक–शीतप्रभावेण अल्प–प्रतिरोधक–शक्तियुक्तेषु जनेषु शीत–रोगः, कासः तथा ज्वरः इत्यादय: अधिकतया प्रसारं प्राप्नुवन्ति। अतः जीवन–शैलीषु प्राकृतिक–उपायानाम् अवलम्बनं कृत्वा शरीरं अत्यधिकशीत–परिस्थित्यां स्वस्थतायै सज्जीकर्तव्यम्।
एताः भावना: एस.के.आर.योग–एवं–रेकी–अनुसन्धान–प्रशिक्षण–प्राकृतिक–संस्थया प्रयागराज–रेकी–केन्द्रे सोमवासरे प्रातः आयोजिते कार्यक्रमे प्रसिद्धः स्पर्श–चिकित्सकः सतीश–रायः उपस्थितजनान् सम्बोधयन् अवदत्।
— ग्रन्थेषु स्पर्श–चिकित्सायाः उल्लेखः
सः अवदत् यत् आधुनिक–काले एलोपैथिक–आयुर्वेदिक–होम्योपैथिक–चिकित्सानां प्रचलने सति स्पर्श–चिकित्सया अल्पाः एव जनाः परिचिताः सन्ति। परन्तु प्राचीन–धार्मिक–ग्रन्थेषु स्पर्श–चिकित्सायाः स्पष्टं वर्णनम् उपलब्धम् अस्ति। एतस्याः अवलम्बनेन धन–व्ययम् अकृत्वा, आहार–विहार–परिवर्तनेन च रोगेभ्यः मुक्ति: सम्भवति।
— आहार–प्रमादकारणात् रोग–वृद्धिः
सतीश–रायः अवदत् यत् आहारे प्रमादकारणेन जनानां मध्ये रोगाः वर्धन्ते। १९९० तमे दशके प्रतिव्यक्तिं प्रतिदिनं केवलं २० ग्राम–तैल–सेवनम् आसीत् तथा वर्षे ७ किलोग्राम–तैल–उपभोगः एव आसीत्।
परन्तु २०२४ तमे वर्षे फास्ट–फूड, त्रिकोणक-कुण्डलिका-पावभाजी-बर्गर-चाउमीन-पिज्जा–आदीनां अधिक–सेवनात् प्रतिव्यक्तिं ५५ ग्राम–तैल–सेवनं, वर्षे च २० किलोग्राम–तैल–घृत–उपभोगः जातः। तस्य परिणामरूपेण स्थौल्यं तथा अन्य–रोगाः तीव्रतया वर्धिताः। १९९० तमे वर्षे यत्र स्थूल–जनसंख्या त्री-कोटि: आसीत्, तत्र २०२४ तमे वर्षे सा संख्या पञ्चत्रिंशत् कोटि अभवत्।
— औषधैः रोग–नियन्त्रणं, न तु पूर्ण–निवारणम्
सः अवदत् यत् जनाः स्थौल्य–रोगेभ्यः वा पीडिताः सन्तः औषधानि सेवन्ते, किन्तु औषधानि रोगं निवारयितुं न शक्नुवन्ति, केवलं तस्य नियन्त्रणं कुर्वन्ति। प्रतिजैविक–औषधानाम् अत्यधिक–सेवनेन शरीरस्थाः हानिकारक–जीवाणवः शनैः शनैः अधिक–बलवन्तः भवन्ति, यत् बहु–औषध–प्रतिरोधिता (Multi Drug Resistance) इति कथ्यते। ततः औषधस्य प्रभावः शरीरं प्रति नश्यति।अन्ते सतीश–रायः अवदत् यत् अत्यधिक-प्रतिजैविक–सेवनात् उदर–आन्त्र–यकृत्–सम्बद्धाः हितकर–जीवाणवः अपि क्षतिं प्राप्नुवन्ति, यस्य परिणामः त्वचायां कण्डू–राशि–रूपेण दृश्यते। विश्व–स्वास्थ्य–सङ्घटनेन (WHO) प्रतिवर्षं प्रायः एक–कोटि–जनानां मृत्युः प्रतिजैविक–औषधानां अप्रभावकारितया भवतीति निर्दिष्टम्।
हिन्दुस्थान समाचार / Divya Ranjan