Enter your Email Address to subscribe to our newsletters

हरिद्वारम्, 05 जनवरीमासः (हि.स.)।
पतञ्जलेः द्वात्रिंशततम-स्थापनादिवसे पतञ्जलियोगपीठस्य संस्थापकाध्यक्षः स्वामीरामदेवः महामन्त्री आचार्यबालकृष्णश्च योग–आयुर्वेद–स्वदेशी–सनातनधर्म–सनातनशिक्षा–सनातनचिकित्सा–सनातनअनुसन्धान–सनातनकृषि–गौमाता तथा भारतमातायाः सेवां कृत्वा परमवैभवशालिनः विकसितभारतस्य निर्माणार्थं सर्वेषां ऋषि–ऋषिकाणां वंशधरान् प्रति आह्वानं कृतवन्तौ।
अस्मिन्नवसरे स्वामीरामदेवः उक्तवान् यत् पतञ्जलिः विश्वस्य पावनतमं संस्थानं मानवतायै शुभफलप्रदं च जातम्। स अवोचत् यत् पतञ्जलेः आत्मा सनातनस्यैव आत्मा। तेन पतञ्जलेः विविधशिक्षणसंस्थानेषु अध्ययमानान् विद्यार्थिनः प्रति आह्वानं कृतम् यत् योगम्, आयुर्वेदम्, स्वदेशीमार्गम्, सनातनधर्मम्, सनातनशिक्षां, सनातनचिकित्सां, सनातनकृषिव्यवस्थां, सनातनजीवनपद्धतिं च जीवनस्य गौरवकारणं कुर्वन्तु; एतत् द्वारा स्वस्य अन्तःकरणे असीमं ज्ञानम्, अनन्तां भक्ति, अनन्तं प्रचण्डं च सामर्थ्यं जागरयन्तु। सदा स्मरणीयं यत् वयं ऋषि–ऋषिकाणां वंशधराः अस्मि। अस्माकं जीवनात् ऋषीणां ऋषित्वं, देवतानां देवत्वं, ब्रह्मणः ब्रह्मत्वं, रामस्य रामत्वं, भगवान्कृष्णस्य कृष्णत्वं, हनूमतः हनुमत्तत्त्वं, शिवत्वं वेदतत्त्वं च व्यक्तं भवेत्।
स अवदत् यत् यदा पतञ्जलगुरुकुलम्, आचार्यकुलम्, विश्वविद्यालयः भारतीयशिक्षाबोर्डश्च सम्पूर्णतया सिद्धफलरूपेण भविष्यन्ति, तदा अस्माकं मुद्रा डॉलर–पाउण्ड–यूरोभ्यः अपि ऊर्ध्वं गमिष्यति। अस्माकं मुद्रा-मूल्यम् भारतीयजीवन-पद्धतेः मूल्येन, भारतीयमानदण्डानां मूल्येन, भारतीयसंस्कृतिपर्वाणां मूल्येन, भारतीय-पासपोर्टस्य च मूल्येन सह सर्वत्र विश्वे वर्धिष्यते; विश्वस्य द्विशताधिकेषु देशेषु वीजा-आवश्यकता अपि न भविष्यति।
स अवोचत् यत् सनातनजीवनमूल्येषु श्रद्धां वहन्तः 200–250 कोट्यधिकाः जनाः विश्वभरि सज्जीकुर्वन्ते, शनैः शनैः च 80–90 प्रतिशतजनाः अपि सनातनमार्गं अनुसरिष्यन्ति। वयं सर्वे मिलित्वा भारतं परमवैभवशालिदेशरूपेण कर्तुम् इच्छामः; स च देशः शौर्येण, वीर्येण, पराक्रमेण च भविष्यति।
कार्यक्रमे आचार्यबालकृष्णेन ट्रस्टस्थापनात् आरभ्य विविधैः संघर्षैः झंझावातैः च सह यावत् सेवाकार्याणां संचालनम्, तावत् पतञ्जलेः यात्रां विस्तारतः वर्णिता। तेन स्वामीरामदेवस्य अखण्ड–प्रचण्ड–पुरुषार्थं निर्दिश्य उक्तं यत् अस्य विश्वालस्य सेवासंकल्पस्य पृष्ठे स्वामीरामदेवस्यैव दृष्टिः आसीत्; एवं च एतस्य यात्रायाः सहभागी भवितुं मम सौभाग्यम् इति।
स अवदत् यत् अस्माकं सेवा-यात्रा संघर्षमयी आसीत्, बहवः उतार–चढ़ावोऽभवन्, महान् संघर्षः कर्तव्यः अभवत्, तथापि यात्रा अग्रे अग्रे प्रवर्तत एव। अस्मिन् प्रवासे विघ्नकरिभ्यः अधिकाः सहयोगदायिनः शक्तयः लब्धाः। गतत्रिंशद्वर्षेषु पतञ्जलेः शिक्षा–स्वास्थ्य–कृषि–अनुसन्धानादिक्षेत्रेषु प्रगति सुलभा नासीत्। तेन उक्तं यत् पतञ्जलेः कारणेन एफएमसीजी-कम्पन्यः अनियन्त्रितं मूल्यवृद्धिं स्थगयितुं बाधिताः। असौ अपि अवदत् यत् शासनसहाय्यं विना पतञ्जलिना देशे अनेकानि ऐतिहासिकानि कार्याणि कृतानि। कृषिक्षेत्रे पतञ्जलेः सेवाकार्यानि वर्णयन् अवदत् यत् उन्नविंशतिप्रदेशेषु सर्वप्रथमं आर्गेनिक-फार्मर-ट्रेनिंग-प्रोग्राम् प्रारब्धवान् पतञ्जलिरेव एकमेव संस्थानम्।
पतञ्जलि-शिक्षण-संस्थानेषु छात्र–छात्रिभिः योगः, मल्खम्भः, कुश्ती, मार्शल-आर्ट्स्, बॉक्सिंग्, जुडो–कराटे इत्यादीनां सुन्दराः प्रस्तुतयः दत्ताः। अस्यां अवधौ संगठनस्तरे सेवाभावयुक्तेभ्यः व्यक्तिभ्यः दायित्वानि अपि समर्पितानि। कार्यक्रमे पतञ्जलेः विविधएककानां प्रमुखाः अधिकारीगणः, पतञ्जलिसंगठनानां योगियोधाः, संन्यासिनः साध्व्यः कर्मयोगिनः, शिक्षणसंस्थानानां छात्राः शिक्षकाः च उपस्थिताः आसन्।
हिन्दुस्थान समाचार