Enter your Email Address to subscribe to our newsletters

जयपुरनगरम्, ०६ जनवरीमासः (हि.स.)। बाङ्ग्लादेशे हिन्दू–अल्पसंख्यक–समुदायं प्रति वर्धमानानाम् अत्याचाराणां विषये राजस्थानस्य पूर्व–मुख्यमन्त्री अशोक–गहलोतः गभीरां चिन्तां प्रकटितवान्। सः अवदत् यत् बाङ्ग्लादेशतः आगच्छन्त्यः वार्ताः अत्यन्तं विचलयन्त्यः सन्ति। केवलं १९ दिनेषु पञ्च हिन्दूनां हत्या, स्त्रीषु च अत्याचाराः मानवतायाः लज्जास्पदः कलङ्कः इति तेन उक्तम्।पूर्व–मुख्यमन्त्री मङ्गलवासरे सामाजिक–माध्यम–मञ्चे ‘एक्स’ इत्यस्मिन् स्वीयं वक्तव्यं प्रकाशयन् केन्द्र–सर्वकारस्य विदेश–नीतौ प्रश्नान् उत्थापितवान्। सः अलिखत् यत्— यस्य राष्ट्रस्य निर्माणे भारतस्य निर्णायकं योगदानम् आसीत्, तत् एव राष्ट्रम् अद्य भारतस्य विरुद्धं स्थितम् इव दृश्यते, एतत् अत्यन्तं चिन्ताजनकम्। एषा स्थितिः भारत–सर्वकारस्य कूटनीतिक–विफलतां सूचयति इति तेन आरोपः कृतः।अशोक–गहलोतः स्वीय–वक्तव्ये १९७१ तमे वर्षे घटितानां घटनानां स्मरणं कृत्वा अवदत् यत् तस्य कालस्य स्मृतयः अद्यापि सजगा: सन्ति, यदा पूर्व–प्रधानमन्त्री इन्दिरा–गान्धिन: नेतृत्वे भारतं न केवलं कूटनीतिक–दृढतां प्रदर्शितवान्, अपि तु स्वीय–इच्छाशक्त्या इतिहासं भूगोलं च परिवर्तितवान्। तस्मिन् काले अमेरिका–सदृशी महाशक्तिः अपि अवगणिता, या भारतस्य विरुद्धं स्वं ‘सप्तम–नौसैन्य–दलम्’ (सेवन्थ फ्लीट्) प्रेषितवती इति सः उक्तवान्।पूर्व–मुख्यमन्त्री केन्द्र–सर्वकारं प्रति आह्वानं कृतवान् यत् सा केवलं “गभीरां चिन्तां व्यक्तयामः” इत्यादि औपचारिक–वक्तव्येषु सीमिता न भवतु, अपि तु दृढान् प्रभावशालिनः च उपायान् स्वीकरोतु। सः अवदत् यत् प्रतिवेशी–राष्ट्रे अल्पसंख्यकानां जीवन–सुरक्षा–मान–मर्यादायाः संरक्षणं भारतस्य नैतिकं कूटनीतिकं च दायित्वम् अस्ति।अन्ते अशोक–गहलोतः उक्तवान् यत् इतिहासः अस्य साक्षी अस्ति यत् रिक्तोद्घोषै: न, अपि तु निर्णायक–नेतृत्वेन एव निर्दोषाणां प्राणरक्षा सम्भवति। तेन प्रधानमन्त्रिणं प्रति आग्रहः कृतः यत् सः अस्मिन् विषये व्यक्तिगत–रूपेण हस्तक्षेपं करोतु तथा बाङ्ग्लादेशस्य अन्तरिम–सर्वकारे प्रभावशालिनं पक्षं स्थापयतु, येन तत्र अल्पसंख्यकेषु प्रवर्तमानाः अत्याचाराः निरुद्धाः स्युः।
हिन्दुस्थान समाचार / अंशु गुप्ता