Enter your Email Address to subscribe to our newsletters

नवदिल्ली, ०६ जनवरीमास: (हि.स.)। दिल्ली–विधानसभायाः शीतकालीन–सत्रस्य द्वितीये दिने कार्यवाही आरभ्यमाणायामेव भारतीय–जनता–दलस्य विधायकः अजयः महावरः सर्वकारी–विद्यालयेषु अध्यापकानां द्वारा श्वानानां गणनां कर्तुं प्रेरितम् इति कथित–असत्य–प्रचारस्य विषये अरविन्द–केजरीवालात् क्षमायाचनां कर्तुम् आग्रहं कृतवान्। अस्मिन् विषये सदस्यानां मध्ये तीव्रः कोलाहल: अभवत्।
तत्पश्चात् विधानसभाध्यक्षः विजेन्द्रः गुप्तः सदनस्य कार्यवाहीं मध्याह्न-एकवादन–पर्यन्तं स्थगनमकरोत्। कृतवान्।
हिन्दुस्थान समाचार / Dheeraj Maithani