Enter your Email Address to subscribe to our newsletters

भोपालम्, ०६ जनवरीमासः (हि.स.)। आधुनिक–हिन्दी–साहित्यस्य पितामहः तथा राष्ट्रीय–नवजागरणस्य प्रखरपुरोधाया: ‘भारतेन्दु’ हरिश्चन्द्रस्य अद्य मङ्गलवासरे पुण्यतिथिः आचर्यते। अस्मिन् अवसरे मध्यप्रदेशस्य मुख्यमन्त्री डॉ.मोहन–यादवः तं स्मृत्वा सादरं श्रद्धाञ्जलिम् अर्पितवान्।
मुख्यमन्त्री डॉ.यादवः सामाजिक–माध्यमे ‘एक्स’ इत्यस्मिन् लिखितवान् यत् “आधुनिक–हिन्दी–साहित्यस्य पितामहस्य भारतेन्दु–हरिश्चन्द्रस्य पुण्यतिथौ सादरं श्रद्धाञ्जलिम् अर्पयामि। तेन हिन्दी–साहित्यं मातृभूमेः स्वातन्त्र्यस्य सशक्तं माध्यमं कर्तुं संकल्पः साकारितः, येन जनचेतना जागरिता। तस्य अतुलनीयं योगदानं प्रति राष्ट्रम् अनन्तकालं यावत् कृतज्ञं भविष्यति।”
हिन्दुस्थान समाचार / Dheeraj Maithani