Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 06 जनवरीमासः (हि.स.)।
केंद्रीयशिक्षामंत्री धर्मेन्द्रप्रधानः मङ्गलवारे राजधानीनगरे शास्त्रीयभारतीयभाषासु प्रकाशितानां पंचपञ्चाशत् साहित्यकृतं लोकार्पणं कृतवान्। तासु केन्द्रीयभारतीयभाषासंस्थानस्य (सीआईआईएल) अधीनानि शास्त्रीयभाषासु स्थितानां उत्कृष्टताकेन्द्रैः विकसिताः एकचत्वारिंशत् पुस्तकानि, तथा केन्द्रीयशास्त्रीयतमिलसंस्थानस्य (सीआईसीटी) प्रकाशिता त्रयोदश पुस्तका एकश्च तिरुक्कुरलस्य भारतीयसांकेतिकभाषा (इण्डियन् साइन् लैङ्ग्वेज्) श्रेणी च अन्तर्भवन्ति।
एषु प्रकाशनेषु कन्नड्, तेलुगू, मलयालम्, ओडिया, तमिऴ् इत्येताभ्यः भाषाभ्यः सम्बद्धाः मुख्याः शैक्षणिकाः अनुसंधानप्रधानाश्च कृतयः संलग्नाः सन्ति। तेन सह तिरुक्कुरलस्य भारतीयसांकेतिकभाषायां प्रस्तुतीकरणम् ‘समावेशीभारतस्य’ दिशि एकं महत्वपूर्णं पौरस्त्यम् उपक्रमं मन्यते। एषः प्रयत्नः राष्ट्रस्य भाषासम्पदं शिक्षायाः अनुसंधानस्य च केन्द्रे स्थापयित्वा सांस्कृतिकगौरवस्य सुदृढीकरणं प्रति जाताः व्यापकाः राष्ट्रीयाः पहलाः अङ्गीकरोति।
अवसरे अस्मिन् स्वसंबोधने धर्मेन्द्रप्रधानः अवदत् यत् प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे सरकारेण भारतीयभाषानां संवर्धनसंरक्षणाभ्यां कृते व्यापकं कार्यं कृतम्। सः अवदत् यत् अनुसूचितसूच्यां भाषाणां समावेशनात् आरभ्य शास्त्रीयग्रन्थानां भारतीयभाषासु अनुवादपर्यन्तं मातृभाषायां शिक्षायाः प्रोत्साहनं यावत् निरन्तराः प्रयासाः कृताः। सः अवदत् यत् अनेकेभ्यः प्रयत्नेभ्यः अपि भारतीयभाषाः कालपरिक्षां सम्यक् अतिक्रान्ताः।
प्रधानेन उक्तं यत् भारतं लोकतन्त्रस्य जननी, भाषावैविध्यं तस्य शक्तिः। सः समाजं प्रति आह्वानं चकार यत् राष्ट्रस्य ऐतिहासिकसांस्कृतिकसाहित्यधरोहरं संरक्षणीयां कृत्वा भावीपीढीषु नीयताम्। सः पुनरुक्तवान् यत् सर्वा भारतीयभाषाः राष्ट्रीयभाषाः एव सन्ति, एताः च समाजं संयोजयन्ति।
सः अवदत् यत् तिरुक्कुरलस्य भारतीयसांकेतिकभाषायां समावेशनं समावेशीभारतपरिकल्पनां सुदृढयति, यत्र सर्वेषां ज्ञानस्य समाना प्राप्तिः सुनिश्चिताभवेत्। तेन एतत् भारतस्य बौद्धिकसाहित्ये एकं मूल्यवन्तं योगदानम् इति अभिहितम्।
शिक्षामन्त्री अवदत् यत् राष्ट्रीयाः शिक्षानीतिः 2020 भारतीयभाषासु शिक्षायाः मार्गं प्रसरयति, भारतं च ‘विविधतायां एकता’ इति सजीवमुदाहरणं भवति। सः औपनिवेशिककालस्य मैकालेनामकमानसिकताम् उल्लिख्य अवदत् यत् भारतीयसभ्यता सदा भाषाः संवादीनां सांस्कृतिकसौहार्दस्य च सेतुभूताः इति दृष्टवती।
प्रधानेन भारतीयभाषासमितिम् उत्कृष्टताकेन्द्राणि सीआईआईएल तथा सीआईसीटी इत्येतानि भारतीयभाषानां संवर्धनाय यत् प्रयत्नाः कृताः तेषां प्रति अभिनन्दनं शुभाशंसनं च दत्तम्। कार्यक्रमे उच्चशिक्षासचिवः विनीतजोशी, भारतीयभाषासमितेः अध्यक्षः चामू कृष्णशास्त्री, सीआईआईएल-निदेशकः प्रो. शैलेन्द्रमोहनः, सीआईसीटी-निदेशकः प्रो. आर्. चन्द्रशेखरन्, परामर्शदाता (लागत) मनमोहनकौर् सहिताः शिक्षामन्त्रालयस्य वरिष्ठाधिकारी उपस्थिताः आसन्।
हिन्दुस्थान समाचार