Enter your Email Address to subscribe to our newsletters

लक्जमबर्ग सिटी, 06 जनवरीमासः (हि.स.)।
विदेशमन्त्री डॉ. एस् जयशङ्करः मङ्गळवारे लक्जम्बर्गदेशस्य प्रधानमन्त्रिणा ल्यूक् फ्रीडेन इत्यनेन सह समागतवान् तथा च तस्मै प्रधानमन्त्रिणः नरेन्द्रमोद्याः पक्षेण शुभाशंसाः न्यवेदयत्। विदेशमन्त्री समप्रति लक्जम्बर्गदेशस्य यात्रायाम् अस्ति। एक्स्-पोस्ट् इत्यत्र प्रकाशिते सन्देशे सः अवोचत् यत् अस्मिन् साक्षाते वित्तीयसेवाः, निवेशः, प्रौद्योगिकी नवोन्मेषयोः क्षेत्रेषु वर्धमानस्य सहयोगस्य विषये चिन्तनम् अभवत्। सः प्रधानमन्त्रे फ्रीडेन इत्यस्मै भारत-यूरोपीय-संघयोः सुदृढसम्बन्धाय तेन दत्तस्य समर्थनस्य कृते धन्यवादम् अपि अकरोत्। ज्ञेयम् यत् विदेशमन्त्री डॉ. जयशङ्करः जनुवारि मासस्य चतुर्थतारिखात् दशमीतारिखान्तं फ्रांस् तथा लक्जम्बर्गयोः अधिकृतयात्राम् अकरोत्।
-------------
हिन्दुस्थान समाचार