जयवीर–सिंहेन ‘लखनऊ–दर्शन’ विद्युत्–द्वितल–बसयानं हरित–ध्वजं दर्शयित्वा प्रेषितम्
सामान्यजनानां पर्यटकानां च कृते ७ जनवरीतः ‘लखनऊ–दर्शन’ सेवायाḥ आरम्भः, प्रतिदिनं १०९० चतुष्पथात् प्रस्थानम् लखनऊनगरम्, ०६ जनवरीमासः (हि.स.)।उत्तरप्रदेशस्य राजधानी लखनऊनगरे पर्यटनपरिदृश्ये मङ्गलवासरे प्रातःकाले नूतना ऊर्जा उत्साहश्च दृष्टिगोचरः अभव
बस को झंडी दिखाते मंत्री जयवीर सिंह


बस सेवा के शुभारंभ पर मंत्री जयवीर सिंह


सामान्यजनानां पर्यटकानां च कृते ७ जनवरीतः ‘लखनऊ–दर्शन’ सेवायाḥ आरम्भः, प्रतिदिनं १०९० चतुष्पथात् प्रस्थानम्

लखनऊनगरम्, ०६ जनवरीमासः (हि.स.)।उत्तरप्रदेशस्य राजधानी लखनऊनगरे पर्यटनपरिदृश्ये मङ्गलवासरे प्रातःकाले नूतना ऊर्जा उत्साहश्च दृष्टिगोचरः अभवत्, यदा पर्यटन–संस्कृति–मन्त्री जयवीर–सिंहः १०९०–चतुष्पथात् ‘लखनऊ–दर्शन’ नाम्नीं विद्युत्–द्वितल–बसयान–सेवां हरित–ध्वजं दर्शयित्वा प्रेषितवान्। अस्मिन् अवसरे मन्त्री जयवीर–सिंहः अवदत् यत्— लखनऊ नगरं पर्यटन–मानचित्रे स्वकीयं विशिष्टं स्थानं सुदृढीकुर्वन् अग्रे गच्छति। एकस्यां यात्रायामेव नगरस्य ऐतिहासिक–धरोहराणि, सांस्कृतिक–परम्परा तथा आधुनिक–स्वरूपं च पर्यटकान् परिचययितुं पर्यटन–विभागस्य एष: प्रयत्न: नूतनम् अध्यायम् उद्घाटयति।मन्त्रिणा उक्तं यत् उत्तरप्रदेश–राज्य–पर्यटन–विकास–निगमेन (यू.पी.एस.टी.डी.सी.) सञ्चालिता ‘लखनऊ–दर्शन’ बससेवा ७ जनवरीमासात् नियमितरूपेण आरभ्यते। एतया सेवया नगरवासिनः तथा देश–विदेशात् आगच्छन्तः पर्यटकाः सुव्यवस्थितां रमणीयां च यात्रां अनुभविष्यन्ति। राजधानीनगरे स्थितानां परम्परा–भवनानां परिचये ‘लखनऊ–दर्शन’ महत्त्वपूर्णां भूमिकां निर्वहिष्यति।पत्रके तुलसी–बीजानि, यात्रा भविष्यति स्मरणीयाजयवीर–सिंहः अवदत् यत् ‘लखनऊ–दर्शन’ राजधानी–पर्यटनस्य कृते नूतना उपलब्धिः अस्ति। विधानसभाया: रेजिडेन्सी–भवनस्य तथा ‘यू.पी.–दर्शन–उद्यानम्’-इत्यस्य भ्रमणं पर्यटकानां कृते विशेषानुभवं जनयिष्यति। यात्रिकाणां सुविधां दृष्ट्वा ई-पत्रक–आरक्षणं भौतिक–पत्रक–व्यवस्था च उपलभ्यते। प्रत्येकस्मिन् पत्रके तुलसी–बीजं दत्तं भविष्यति, यत् यात्रिण: स्वगृहे रोपयितुं शक्नुवन्ति। कुण्डे विकसितं तुलसी–पादपं लखनऊ–दर्शन–यात्रायाः स्मरणं सदा धारयिष्यति।यात्रिण: स्वसौविध्यानुगुणं भ्रमण–व्यवस्थां चिन्वन्तुयू.पी.एस.टी.डी.सी.–निगमस्य प्रबन्ध–निदेशकः आशीष–कुमारः अवदत् यत् यात्री–सुविधादृष्ट्या ‘लखनऊ–दर्शन’ विद्युत्–द्वितल–बसयान–सेवा प्रतिदिनं द्वयो: कालयो: (प्रातःकाले सायंकाले च) सञ्चालिता भविष्यति। यात्रिण: स्वसौविध्यानुगुणं भ्रमण–व्यवस्थां चयनं कर्तुं शक्नुवन्ति।१२ वर्षेभ्यः अधिकवयस्कानां कृते प्रतिव्यक्ति–भाटकं ५०० रूप्यकाणि, ५ तः १२ वर्षवयस्कानां बालकानां कृते ४०० रूप्यकाणि निर्धारितानि सन्ति। अधिकाधिक–जनसहभागाय ३१ जनवरीपर्यन्तं पत्रक–आरक्षणे १० प्रतिशतं मूल्यशैथिल्यम् अपि प्रदास्यते। इच्छुकाः यात्रिण: यू.पी.एस.टी.डी.सी.–इत्यस्य जालस्थलेन पत्रकम् आरक्षयितुं शक्नुवन्ति। यात्राकाले यात्रिक–सौविध्यर्थं बसयानमध्ये मार्गदर्शकाः (टूर–गाइड्) अपि उपस्थिताः भविष्यन्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता