Enter your Email Address to subscribe to our newsletters

खरगोनम्, 06 जनवरीमासः (हि.स.)।मध्यप्रदेशस्य खरगोन-जिल्लायां स्थितानां यूनां नियोजनोद्देशेन अद्य मंगलवासरे प्रातेः एकादशवादनात् आरभ्य मध्याह्न त्रिवादनपर्यन्तं शासकीय-आईटीआई-खरगोन-नाम्नि संस्थायां “युव-संगमः (रोजगारः, स्वरोजगारश्च अप्रेन्टिशिप्-मेला)” इति आयोजनं क्रियते। अस्मिन् मेलायां निजी-कम्पनिभिः भर्ती-कार्यं करिष्यते। सहैव स्वरोजगारार्थं ऋणप्रदानक-शासकीय-विभागैः अपि युवेभ्यः स्वरोजगारसम्बद्धा सूचना प्रदास्यते।
जिल्लाजीवन-अधिकारी प्रीतिबाला सस्ते इत्यनेन निवेदितं यत् अस्मिन् रोजगार-मेलायां अष्टम-श्रेणितः आरभ्य स्नातक-स्नातकोत्तर-आईटीआई-उत्तीर्णा युवानः, येषां वयः अष्टादशाद् त्रिंशद् वर्षपर्यन्तं भवति, ते स्वीयानि शैक्षणिक-अर्हतानां अंक्सूचीपत्राणि, जीवनवृत्तान्तं अथवा सीवी, रोजगार-कचेहर्याः पञ्जीकरणं, समग्र-आइडी अनिवार्यम् इति, अन्यप्रमाणपत्राणां प्रतिलिपयः च तथा पास्पोर्ट्-आकारयोः द्वौ छायाचित्रौ गृत्वा मेलायाम् आगत्य लाभं प्राप्तुं शक्नुवन्ति। अधिकतया सूचनां प्राप्नुयुः चेत् हेल्पलाइन-सङ्ख्या 07282 232787 इत्यस्यां सम्पर्कं कर्तुं शक्यते।
हिन्दुस्थान समाचार