Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 06 जनवरीमासः (हि.स.)।
केन्द्रीयसड़क-परिवहनमन्त्री नितिनगडकरी-सहितैः अन्यैः नेताभिः मङ्गलवासरे पूर्वकेन्द्रीयमन्त्री वरिष्ठकाङ्ग्रेसनेता सुरेशकलमाडी-इत्यस्य निधनम् प्रति शोकः व्यक्तः कृतः। दीर्घव्याध्यनन्तरं सुरेशकलमाडी अद्य प्रातःकाले महाराष्ट्रस्य पुणे-जिले अन्तिमश्वासं निःश्वस्य लोकान्तरिताः। ते एकाशीतिवर्षीयाः आसन्।
नितिनगडकरी इत्यनेन एक्स्-नाम्नि माध्यमे लिखितम्— “पूर्वकेन्द्रीयमन्त्री सुरेशकलमाडी-इत्यस्य निधनात् महाशोकितोऽस्मि। तैः विभिन्नेषु पदेषु स्थित्वा देशस्य निष्ठया सेवा कृता। एतस्मिन् दुःखकाले तस्य परिवारस्य, मित्राणां शुभचिन्तकानां च प्रति मम गाढं सम्वेदनाभावम्। ओं शान्तिः।”
द्रविडमुनेत्रकषगमदलस्य उपमहासचिवा कनिमोझीकरुणानिधिः उक्तवती—पूर्वकेन्द्रीयमन्त्री सुरेशकलमाडी-इत्यस्य कठिनेषु कालेषु अपि तेषां धैर्यं उत्साहश्च सदा स्मर्यते।
तेलङ्गानाराज्यस्य परिवहन-बीसीकल्याणमन्त्री पूनमप्रभाकरः अवदत्—सुरेशकलमाडी-इत्यस्य सार्वजनिकजीवने योगदानं स्मरणीयं भविष्यति। तस्य परिवारस्य प्रियजनानां च प्रति गाढाः संवेदनाः।
विधानपरिषद्सदस्यः निजामाबाद-स्थः तथा तेलङ्गानाकाङ्ग्रेसाध्यक्षः महेशकुमारगौडः उक्तवान् सुरेशकलमाडी-इत्यनेन सार्वजनिकजीवने निष्ठया सेवा कृता, तेषां योगदानं च स्मृतौ भविष्यति।
असमकाङ्ग्रेस्सचिवः पृत्वी राजसाठे अवदत्—सुरेशकलमाडी मम राजनैतिकगुरवः मार्गदर्शकश्च आसन्; तेषां निधनात् यः शोकः जातः सः शब्दैः अवक्तव्यः।
---------------
हिन्दुस्थान समाचार