प्रधानमन्त्रीमोदिना श्लोकं विलिख्य मधुर–वाणी–सन्देशः प्रदत्तः
नवदिल्ली, ०६ जनवरीमासः (हि.स.)। प्रधानमन्त्री नरेन्द्र–मोदी मङ्गलवासरे सामाजिक–माध्यम–मञ्चे एकं प्राचीनं संस्कृत–श्लोकं लिखितवान्, यस्मिन् मधुर–प्रिय–वाक्यानां महत्त्वं विशेषतया प्रतिपादितम् अस्ति। प्रधानमन्त्रिणा ‘एक्स'' इत्यस्मिन् सामाजिक–माध्यमे
प्रधानमंत्री नरेन्द्र मोदी (फाइल फोटो)।


नवदिल्ली, ०६ जनवरीमासः (हि.स.)। प्रधानमन्त्री नरेन्द्र–मोदी मङ्गलवासरे सामाजिक–माध्यम–मञ्चे एकं प्राचीनं संस्कृत–श्लोकं लिखितवान्, यस्मिन् मधुर–प्रिय–वाक्यानां महत्त्वं विशेषतया प्रतिपादितम् अस्ति। प्रधानमन्त्रिणा ‘एक्स' इत्यस्मिन् सामाजिक–माध्यमे श्लोकं लिखितवान् यत् प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः। तस्मात् तदेव वक्तव्यं वचने का दरिद्रता॥ अस्य श्लोकस्य अर्थः—मधुर–प्रिय–वचनेन सर्वे प्राणिन: प्रसन्ना: भवन्ति। अयं श्लोकः जनान् सदा सौम्यां, प्रसन्नतां च भाषां वक्तुं प्रेरयति। सहैव अनेन भारतीय–संस्कृतेः संस्कृत–भाषायाश्च समृद्धा परम्परा प्रकाश्यते, यत्र वाणी अमृत–तुल्या मन्यते।

हिन्दुस्थान समाचार / Dheeraj Maithani