Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 06 जनवरीमासः (हि.स.)।
भारतीयरेल् सामान्ययात्रिकाणां आवश्यकतान् केन्द्रीकृत्य मूलसुविधानां सेवाश्रृङ्खलायाश्च आधुनिकीकरणं करोति। निरन्तरनिवेशेन, सञ्चालनोन्नयनेन, तन्त्रज्ञानस्य च प्रयोगेन सह रेलव्यवस्थायाः लक्ष्यं यत् रेलयात्रां अधिकं सुविधाजनकां सुरक्षितां सुखदां किफायत्-मूल्ययुक्तां च कर्तुम्।
रेलविभागेन न्यून-भोग्येन भाटकेन वर्धमानां यात्रिकमांगलां पूरयितुं आधुनिकसुविधासम्पन्नानां जनरल् तथा अन वातानुकूलितानां कोच-यानानां अभूतपूर्वं निर्माणम् कृतम्। एते कोचाः केवलं यात्रासुविधां न वर्धयन्ति, अपि तु वहनक्षमतामपि उल्लेखनीयरीत्या वर्धयन्ति।
रेलमन्त्रालयेन मङ्गलवारे प्रकाशितं यत् वर्तमानवित्तवर्षे 2025–26 तु भारतीयरेलेन 4,838 नूतनानि एल्.एच्.बी. जनरल् तथा अन वातानुकूलितानि कोच्यानि निर्मातुं प्राविधानं कृतम्, यदा 2026–27 वर्षाय 4,802 एल्.एच्.बी. कोच्यानां उत्पादनलक्ष्यं निर्धारितम्। अस्य उद्देश्यं वर्धमानयात्रिकसङ्ख्यायाः अनुरूपं सुरक्षिततराः उत्तमतराश्च सेवाः समर्पयितुम्।
उत्सवकालीनसञ्चयस्य च भीड्-व्यवस्थापनस्य कृते विशेषरेलगाडीनां अभूतपूर्वं संचालनम् अपि कृतम्। 2025 वर्षे उत्सव-ऋतुषु च भीड्-नियन्त्रणार्थं 43 सहस्रातिरिच्य विशेषयात्राः चालयिताः। तासु महाकुम्भाय 17,340, होलीउत्सवाय 1,144, ग्रीष्मविशेष 12,417 तथा छठ्पूजाय 12,383 विशेषगाडयः समाविष्टाः। एतत् प्रयत्नेन भीड्-न्यूनता सञ्जाता, यात्रिकेभ्यः समयोचितं गमनागमनसौकर्यं च लब्धम्।
स्टेषनेषु यात्रिकहोल्डिङ्ग्-क्षेत्राणि अपि विकसितानि। भीड्-व्यवस्थापनाय, आरोहणपूर्वं यात्रिकानां सुविध्यर्थं, देशस्य 76 प्रमुखस्टेषनेषु एते क्षेत्राः विनिर्मीयन्ते। नवीदिल्लीस्टेषनस्थस्य यात्रिकसुविधाकेन्द्रस्य आदर्शेन निर्मितेषु एतेषु क्षेत्रेषु शौचालयव्यवस्था, टिकट्सुविधा, स्वचालितटिकट्-वेंडिङ्ग्-यन्त्राणि, आर्-ओ पेयजलव्यवस्था च भविष्यति। एतानि 2026 वर्षस्य उत्सवकालेभ्यः पूर्वमेव पूर्णं कर्तुं लक्ष्यं निर्धारितम्।
टिकट्-व्यवस्थां सुदृढीकर्तुं आधारसत्यापनम् अनिवार्यं कृतम्। टिकट्-प्रणाल्यां पारदर्शितां सत्यनिष्ठां च सुनिश्चितुं केवलं आधार-सत्यापित-उपयोक्तृभ्यः एव तत्काल-चिटिकारस्य अनुमतिर्दीयते। तन्त्रज्ञानाधारितनिगरणेन अवैध-बुकिङ्ग् विरुद्धं कठोरकार्याः कृताः, यस्य फलरूपेण अद्यावधि 5.73 कोटि संशयास्पदानि निष्क्रियाणि च आईआरसीटीसी-खातानि निष्क्रियीकृतानि निलम्बितानि वा कृतानि।
यात्रिकसुरक्षायाम् विशेषः फोकस् अवस्थितः। यात्रिकसुरक्षा भारतीयरेलस्य सर्वोच्चा प्राथमिकता एव। 2025–26 वित्तवर्षे सुरक्षा-शीर्षकान्तर्गतं 84 प्रतिशतं बजट्-राशेः पूर्वमेव उपयुज्यते। ट्रेन्-दुर्घटनानां सङ्ख्यायामपि उल्लेखनीया न्यूनता जातम्। वर्तमानवित्तवर्षे सुरक्षा-बजट् 1.16 लक्ष्-कोटि-रूप्यकपर्यन्तं वर्धितम्। शीतकोहरेण सह निवारणाय फॉग्-सुरक्षा-उपकरणानां सङ्ख्या अपि शीघ्रं वर्धिता।
अमृतभारत-ट्रेन्-नाम्ना नून-वातानुकूलित-यात्रायाः प्रोत्साहनम् अपि दीयते। केवलम् अन वातानुकूलिता अमृतभारत-एक्सप्रेस्-ट्रेन्-माध्यमेन किफायत्-मूल्ये गुणवत्तायुक्ता च यात्रा-सुविधा समर्प्यते। 2025 वर्षे 13 नूतनाः अमृतभारत-ट्रेन्स् आरब्धाः, येन असां कुलसंख्या 30 जाता। तेन सह नमोभारत्-रैपिड्-रेल्-सेवाभिः क्षेत्रीय-संयोजना अपि सुदृढीकृता।
भारतीयरेल् अन वातानुकूलित-क्षमतां वर्द्धयित्वा, विशेषट्रेन्स् प्रेषयित्वा, स्टेषनसुविधानां विकसनम् अकरोत्, सुरक्षा-टिकट्-प्रणाली च सुदृढीकृत्य सामान्ययात्रिकानां कृते एकां आधुनिकां समावेशिनीं यात्रिक-केन्द्रितां च परिवहनप्रणालीं निर्मातुम् दिशि निरन्तरं प्रगच्छति।
---------------
हिन्दुस्थान समाचार