Enter your Email Address to subscribe to our newsletters

रायपुरम्, ०६ जनवरीमासः (हि.स.)।
बिहार–राज्यस्य राजधानी पटनानगरे २५ तः २९ दिसम्बर–पर्यन्तं आयोजितायां साउथ–एशियन–बॉल–बैडमिंटन–चैम्पियनशिप–प्रतियोगितायां भारतीय–दलम् उत्कृष्टं प्रदर्शनं कृत्वा स्वर्ण–पदकं प्राप्तवान्। अस्यां प्रतिष्ठितायां अन्ताराष्ट्रियायां प्रतियोगितायां भारत–नेपाल–भूटान–श्रीलङ्का–देशानां दलानि सहभागीणि आसन्।
अस्यां प्रतियोगितायां भारतस्य विजयी–दलस्य अङ्गत्वेन देशस्य तथा छत्तीसगढ–प्रदेशस्य नाम उज्ज्वलयन्ती कवर्धा–नगरस्य योग्या क्रीडिका रिया–तिवारी उपमुख्यमन्त्रिणा विजय–शर्मणा मङ्गलवासरे सम्मानिता। उपमुख्यमन्त्री शर्मा रिया–तिवार्यै स्मृति–चिह्नं प्रशस्ति–पत्रं च समर्प्य तस्याः उपलब्धिं प्रशंसितवान् तथा उज्ज्वल–भविष्याय शुभाशया: व्यक्तवान्।
अस्मिन् अवसरे उपमुख्यमन्त्री शर्मा अवदत् यत् रिया–तिवार्याः एषा उपलब्धिः न केवलं कवर्धा–जनपदस्य, अपि तु सम्पूर्ण–छत्तीसगढ–प्रदेशस्य गर्वस्य विषयः अस्ति। सीमित–संसाधनानाम् सति अपि अन्ताराष्ट्रिय–स्तरे उत्कृष्ट–प्रदर्शनं कृत्वा रिया-इत्यनया इदं सिद्धं यत् प्रतिभया, अनुशासनेन तथा कठिन–परिश्रमेण किमपि लक्ष्यम् असाध्यं न भवति। सः विश्वासं व्यक्तवान् यत् रिया भविष्येऽपि देशाय अनेकानि पदकानि जेष्यति तथा प्रदेशस्य नव–यूनां क्रीडकानां प्रेरणास्रोतः भविष्यति।
उपमुख्यमन्त्री श्री–शर्मा अपि अवदत् यत् राज्य–सर्वकारः क्रीडा–प्रतिभानां विकासाय सर्वथा सहयोगं प्रददाति। क्रीडकानां कृते उत्तम–प्रशिक्षण–सुविधा–प्रोत्साहन–प्रदानार्थं विविधाः योजनाः सञ्चाल्यन्ते, येन ग्राम्य–दूरस्थ–क्षेत्रेभ्यः आगतानाम् अपि प्रतिभाशालिनां क्रीडकानां राष्ट्रिय–अन्ताराष्ट्रिय–मञ्चेषु स्वपरिचय–स्थापनं सम्भवेत्।
रिया तिवारी अवदत् यत् अस्याः सफलतायाः सम्पूर्णं श्रेयः मम माता–पित्रोः तथा मम प्रशिक्षकयोः अविनाश–चौहान–जय–किशन–इत्येतयोः अस्ति। तेषां निरन्तर–मार्गदर्शनेन, अनुशासनेन प्रेरणया च विना एषा उपलब्धिः सम्भवा न भवेत्। प्रत्येकं कठिन–काले तैः मम आत्मविश्वासः संरक्षितः तथा अग्रे गन्तुं शक्तिः प्रदत्ता। एष: विजयः मम कृते केवलं पदकं न, अपि तु मम क्रीडा–जीवनस्य नूतना आरम्भ–रेखा अस्ति। अहम् अग्रेऽपि सम्पूर्ण–समर्पणेन परिश्रमेण च देशस्य प्रदेशस्य च कृते उत्कृष्टं प्रदर्शनं कर्तुं प्रयतिष्ये।
हिन्दुस्थान समाचार / Dheeraj Maithani