Enter your Email Address to subscribe to our newsletters


जौनपुर–जनपदे, ०६ जनवरीमासः (हि.स.)। उत्तरप्रदेशस्य जौनपुर–जनपदे सनातन–धर्मानुयायिनां हिन्दूनां च प्रसिद्धः पर्व माघ–मासस्य कृष्ण–पक्षे चतुर्थी–तिथौ मङ्गलवासरे सङ्कष्टी–गणेश–चतुर्थी रूपेण आचर्यते। एतत् व्रतं प्रीति–योगे सर्वार्थ–अमृत–सिद्ध–योगे च करणीयम् इति मान्यता अस्ति। अद्य चन्द्रोदयः रात्रौ ८:४५ वादने आरभ्य ९:३० वादनपर्यन्तं भविष्यति। अस्मिन् काले व्रती–मातरः चन्द्रमासे अर्घ्यं दत्त्वा व्रत–पारायणं करिष्यन्ति।
अस्मिन् विषये हिन्दुस्थान–समाचारेण सह संवादे विद्वान् ज्योतिषाचार्यः डॉ.अखिलेश–मिश्रः अवदत् यत्— अस्यां तिथौ व्रती–महिलाः आदिनम् उपवासं धारयन्ति। चन्द्रोदयात् पूर्वं स्नानं कृत्वा नूतन–वस्त्राणि धार्यन्ते। मुक्ताकाशस्य अधः गोमयेन भूमिं लेपयित्वा चतुष्पथं पूर्यते, तत्र पूजन–सामग्री स्थाप्यते। अस्य व्रतस्य अनुष्ठानेन सङ्कट–निवारणं भवति इति श्रद्धा वर्तते। महिलाः स्वपुत्राणां दीर्घायुषः तथा कुटुम्बस्य सुख–समृद्धि–मङ्गल–कामनायै एतद्व्रतं धारयन्ति।
एतद्व्रतं विघ्न–बाधानां निवारकं भवति; व्रत–पालनेन कुटुम्बे धन–धान्य–ऐश्वर्यवृद्धिः अपि जायते। चन्द्रोदयात् अनन्तरं ताम्र–पात्रेण चन्द्रमसे रक्तचन्दन–कुश–दूर्वा–पुष्प–अक्षत–शमी–पत्रादिभिः सह अर्घ्यं दीयते। अस्मिन् व्रते गौरी–गणेशयो: तथा चन्द्रमसः विशेषं पूजन–विधानम् अस्ति।
पूजने प्रत्येकं द्रव्यं भगवते गणपतये चतुःसंख्यया समर्प्यते— रक्तकन्दः, फलानि, गुडः, तिलाः, ताम्बूल-इत्यादयः। गुड–तिल–घृतैः आहुतयः अपि दीयन्ते। चतुर्बर्त्तिक–दीपेन सह गणेश–आरार्तिकी क्रियते। गणेश–कथा चतुर्धा कथ्यते श्रूयते च। कृष्ण–तिलैः जल–पुष्पैः सह हस्ते गृहीत्वा चतुःप्रदक्षिणां कृत्वा अर्घ्य–दानस्य विधानं वर्तते। अस्मिन् व्रते गुडः, कृष्ण–तिलाः, रक्त–कन्द–मूली, ताम्बूलपत्रम् इतृयादय: च विशेष–महत्त्वं वहन्ति। पूजनानन्तरं सिङ्घाड–लप्सिका, कन्द:, क्षीरं, चायम् इत्यादयः फलाहाररूपेण गृह्यन्ते।
हिन्दुस्थान समाचार / Dheeraj Maithani