Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 06 जनवरीमासः (हि.स.)।
काङ्ग्रेस् दलस्य संसदीयदलाध्यक्षाः सोनिया गाँधी इत्येताः स्वास्थ्यदोषस्य कारणेन दिल्ली-स्थिते सर् गङ्गाराम् चिकित्सालये उपचारार्थं उपन्यासिता। तेषां वक्षसि वेदना तथा श्वासोच्छ्वासे कष्टता इति उपशयाः सञ्जाता इत्यतः ताः चिकित्सालयं नीताः। अधुना ताः उरःरोगविशेषज्ञस्य पर्यवेक्षणे स्थापिताः सन्ति।
सर् गङ्गाराम् चिकित्सालयेन मङ्गलवासरे प्रदत्ते अधिकृतवक्तव्ये उक्तम्—सोनिया गाँधी सोमवासररात्रौ प्रायः दशवादने चिकित्सालये उपन्यासिता। चिकित्सालयस्य अध्यक्षेन डॉ. अजय स्वरूप इत्यनेन उक्तम्—परिक्षणेषु ज्ञातं यत् शैत्येन तथा प्रदूषितवातावरणेन तासां ब्रॉन्कियल्-अस्थमा नाम रोगः किञ्चित् वृद्धिं गतः। सतर्कतावशात् ताः अग्रे निरीक्षणोपचारार्थं उपन्यासिता।
चिकित्सालयेन उक्तं यत् तासां अवस्था सम्पूर्णतया स्थिरा अस्ति, उपचारं च उत्तमरीत्या स्वीकुर्वन्ति। तासां प्रति प्रतिजैविकौषधैः अन्यैश्च साहाय्यकौषधैः उपचारः क्रियते। वैद्यैः उक्तम्—तासां आरोग्ये यथा प्रगतिर्भविष्यति, तथानुसारं एक-द्विदिनान्तराले विमोचननिर्णयः करिष्यते।
---------------
हिन्दुस्थान समाचार