क्षयरोग (टीबी)-उन्मूलन–मार्गे उत्तरप्रदेशः अग्रे, सर्वाधिकः रोगिणः अन्वेषिताः
नैट–यन्त्रेण परीक्षणं द्विगुणितम्, २७–लक्षाधिक–प्रकरणेषु परीक्षणं कृतम् लखनऊनगरम्, ०६ जनवरीमासः (हि.स.)। क्षयरोग–(टीबी)–उन्मूलनाय अधिकाधिक–रोगिणां चिन्हीकरणं चिकित्सां च आधृत्य उत्तरप्रदेशः पुनः एकवारम् अग्रस्थानं प्राप्तवान्। गतवर्षे प्रदेशेन ६.७
टीबी उन्मूलन


नैट–यन्त्रेण परीक्षणं द्विगुणितम्, २७–लक्षाधिक–प्रकरणेषु परीक्षणं कृतम्

लखनऊनगरम्, ०६ जनवरीमासः (हि.स.)। क्षयरोग–(टीबी)–उन्मूलनाय अधिकाधिक–रोगिणां चिन्हीकरणं चिकित्सां च आधृत्य उत्तरप्रदेशः पुनः एकवारम् अग्रस्थानं प्राप्तवान्। गतवर्षे प्रदेशेन ६.७५–लक्ष–रोगिणां चिन्हीकरण–लक्ष्यस्य अपेक्षया ६.९०–लक्ष–रोगिणः अन्वेषिताः। २०२३ तथा २०२४ तमे वर्षेऽपि प्रदेशेन क्षयरोग–रोगिणां चिन्हीकरण–लक्ष्यं सफलतया प्राप्तम्। विशेषज्ञाः मन्यन्ते यत् उत्तरप्रदेशे क्षयरोग–उन्मूलनस्य दिशि एषा निर्णायिक: प्रयत्न: अस्ति।नेशनल–टीबी–टास्क–फोर्स–इत्यस्य उपाध्यक्षः डॉ.राजेन्द्र–प्रसादः अवदत् यत् क्षयरोग–उन्मूलनस्य एक: एव प्रभावी उपायः अधिकाधिक–रोगिणां समये चिन्हीकरणं तेषां समुचित–चिकित्सा च अस्ति। उत्तरप्रदेशेन निश्चयेन प्रशंसनीयं कार्यं कृतम्, किन्तु एषा प्रयास–परम्परा निरन्तरं धारणीया। तेन उक्तं यत् गतत्रिवर्षेषु उत्कृष्ट–प्रयासैः प्रदेशे देशे च प्रति–लक्ष–जनसंख्यायां क्षयरोग–प्रकरणानां संख्या न्यूनतां गता, मृत्युदरः अपि न्यूनः जातः।

राज्य–क्षयरोग–अधिकारी डॉ.शैलेन्द्रभटनागरः अवदत् यत् प्रदेशे क्षयरोग–उन्मूलनस्य दिशि सततं प्रयासाः क्रियमाणाः सन्ति। २०१५ तमस्य वर्षस्य तुलनायां नूतन–रोगिणां संख्यायां १७ प्रतिशतं मृत्युदरे च १७ प्रतिशतं न्यूनता दृष्टा। ७ दिसम्बर २०२४ तः प्रवर्तमाने ‘क्षयरोग–मुक्त–भारत–अभियाने’ अधुनापर्यन्तं २,१८,९८६ लक्षणहीन–क्षयरोग–रोगिणां पुष्टि: कृता। गतवर्षे देशे सर्वाधिकम् उत्तरप्रदेशे एव ५,३६७ औषध–प्रतिरोधी–(ड्रग–रेजिस्टेण्ट)–रोगिणः BPaLM–उपचार–पद्धत्या उपचारिताः, यत् एकम् अभूतपूर्वं कीर्तिमानम् अस्ति। २०२४ तमे वर्षे ७,१९१ ग्राम–पञ्चायताः ‘क्षयरोग–मुक्ताः’ इति घोषिताः।

प्रदेशस्य ५८ जनपदेषु स्थिताः १८० सार्वजनिक–क्षेत्रीय–एक्स–रे–यन्त्राणि निःशुल्क–एआई–आधारित–स्क्रीनिङ्ग–उपकरणैः सुसज्जितानि। ‘नि:क्षय–मित्र’–प्रयत्नमपि प्रदेशेन उल्लेखनीयं कार्यं कृतम्। केवलं नरोरा–परमाणु–विद्युत्–केन्द्रेण बुलन्दशहर–जनपदे ७,५९३ क्षयरोग–रोगिणः दत्तकत्वेन स्वीकृताः। २०२४ तमे वर्षे ६.५–लक्ष–रोगिणां पञ्जीकरण–लक्ष्यस्य अपेक्षया ६.७३–लक्ष–रोगिणः चिन्हिताः। २०२३ तमे वर्षेऽपि ६.२२–लक्षाधिक–रोगिणां चिन्हीकरणं चिकित्सा च कृता।

क्षयरोगस्य (टीबी) प्रमुख–लक्षणानि—

१. द्विसप्ताहात् अधिककालं यावत् काश:२. काशे रक्तस्रावः३. सायंकाले ज्वरः४. रात्रौ अतिप्रस्वेदः५. भार–ह्रासः६. अरुचिः७. निरन्तरं शरीर–दौर्बल्यं८. अति-क्लान्तता९. श्वास–कठिनता१०. वक्षःस्थले पीडा

हिन्दुस्थान समाचार / अंशु गुप्ता