Enter your Email Address to subscribe to our newsletters

झज्जरजनपद:, ०६ जनवरीमासः (हि.स.)। निपुण–हरियाणा–अभियानस्य अन्तर्गतं प्राथमिक–अध्यापकानां कृते द्विदिवसीयः प्रशिक्षण–कार्यक्रमः मङ्गलवासरे झज्जर–जनपदस्य त्रिषु खण्डेषु—बहादुरगढ़े, मातनहेल–खण्डे तथा सालहावास–खण्डे—आरब्धः।बहादुरगढ़–खण्डे पञ्चसु सत्रेषु आहत्य २०४ अध्यापकाः, मातनहेल–खण्डे द्वयोः सत्रयोः ८८ अध्यापकाः, तथा सालहावास–खण्डे द्वयोः सत्रयोः ७३ अध्यापकाः अस्मिन् प्रशिक्षण–कार्यक्रमे सहभागं गृह्णन्ति।
एतत् प्रशिक्षणं रिमेडियल–प्रशिक्षणं, फाउण्डेशनल–प्रशिक्षण–अध्ययनम् तथा सेंसस–मूल्यांकन–इत्येतेषु विषयेषु केन्द्रितम् अस्ति। बहादुरगढ़–खण्डस्य प्रशिक्षण–कार्यक्रमस्य उद्घाटनं जनपद–मौलिक–शिक्षा–अधिकारी राजबाला–मालिका, खण्ड–शिक्षा–अधिकारी शेरसिंहः तथा जनपद–निपुण–समन्वयकः डॉ.सुदर्शन–पूनिया च संयुक्तरूपेण राजकीय–मॉडल–संस्कृत–वरिष्ठ–माध्यमिक–विद्यालये, बहादुरगढ़े कृतवन्तः।
माध्यमैः सह संवादे डॉ.सुदर्शन–पूनिया अवदत् यत् निपुण–अभियानस्य एषः प्रशिक्षण–कार्यक्रमः अध्यापकानां दक्षता–वृद्ध्या सह विद्यार्थिनाम् अधिगम–स्तर–उपलब्धिनां सनशोधनाय एकं प्रभावी साधनं भविष्यति। ये विद्यार्थिन: कक्षास्तरीय–दक्षताभ्यः पश्चात् पतन्ति, तान् प्रति विशेषं ध्यानं दातव्यम्, तेषां समस्याकारणानि ज्ञात्वा समाधानाय कार्यं करणीयम् इति सः अवदत्।जनपद–मौलिक–शिक्षा–अधिकारी राजबाला–मालिका उपस्थितान् अध्यापकान् सम्बोधयन्ती अवदत् यत् अध्यापकाः समाजस्य राष्ट्रस्य च आधारशिलां दृढां कुर्वन्ति। सा अध्यापकान् आह्वानं कृतवती यत् प्रशिक्षणकाले प्राप्तान् कौशलान् नूतन–अध्यापन–विधीश्च स्व–विद्यालयेषु कार्यान्वितवन्तः स्युः, येन विद्यार्थी सर्वेषु विषयेषु निपुणा: भवन्तु।मातनहेल–खण्डे प्रशिक्षण–कार्यक्रमस्य शुभारम्भः खण्ड–शिक्षा–अधिकारी राजबाला–फोगाटेन कृतः, तथा सालहावास–खण्डे खण्ड–शिक्षा–अधिकारी जयपाल–दहिया इत्यनेन उद्घाटनं कृतम्।अस्य प्रशिक्षण–कार्यक्रमस्य मुख्यं लक्ष्यं निपुण–हरियाणा–अभियानस्य विषये अध्यापकानां बोधं सुदृढीकरणं, विद्यार्थिनाम् अधिगम–परिणामेषु संशोधनभ्, तथा गुणवत्तापूर्ण–शिक्षायाः दिशि सशक्य–पदक्षेप–ग्रहणं च अस्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता