बलिदानी-सरदार–गया–मुण्डाय जनपदप्रशासनेन श्रद्धाञ्जलिः अर्पिता
खूण्टीनगरम्, ०६ जनवरीमास: (हि.स.)। बलिदानिनः सरदार–गया–मुण्डा-इत्यस्य पुण्यतिथ्यवसरे मुरहू–प्रखण्डान्तर्गतस्य एटकेडीह–ग्रामे मङ्गलवासरे जनपदप्रशासनपक्षत: श्रद्धाञ्जलि–कार्यक्रमः आयोजितः। उपायुक्ताया आर.रॉनिटा–इत्यस्याः निर्देशानुसारं आईटीडीए–परियोज
बलिदान सरदार गया मुंडा को  जिला प्रशासन ने अर्पित की श्रद्धांजलि


खूण्टीनगरम्, ०६ जनवरीमास: (हि.स.)। बलिदानिनः सरदार–गया–मुण्डा-इत्यस्य पुण्यतिथ्यवसरे मुरहू–प्रखण्डान्तर्गतस्य एटकेडीह–ग्रामे मङ्गलवासरे जनपदप्रशासनपक्षत: श्रद्धाञ्जलि–कार्यक्रमः आयोजितः। उपायुक्ताया आर.रॉनिटा–इत्यस्याः निर्देशानुसारं आईटीडीए–परियोजना–निदेशकः आलोक–शिकारी–कच्छपः सरदार–गया–मुण्डा-इत्यस्य प्रतिमायां माल्यार्पणं कृत्वा श्रद्धांजलिम् अर्पितवान्।

अस्मिन् अवसरे बलिदानी–सरदार–गया–मुण्डा-इत्यस्य अदम्यं साहसं महान्तं बलिदानं च स्मारयन् उक्तं यत् सः भगवत: बिरसा–मुण्डा-इत्यस्य प्रमुखः सेनापतिः आसीत् तथा आङ्ग्ल–शासनस्य विरुद्धे सङ्घर्षे महत्त्वपूर्णां भूमिकां निर्वहन् आसीत्। तस्य बलिदानं देशाय समाजाय च अमूल्यं वर्तते।

उपायुक्ता स्वसन्देशे अवदत् यत् शहीद–सरदार–गया–मुण्डा-इत्यनेन स्वातन्त्र्यस्य स्वाभिमानस्य च कृते यः सङ्घर्ष–आदर्शः प्रस्तुतीकृतः, सः अद्यापि अस्माकं सर्वेषां कृते प्रेरणास्रोतः अस्ति। तस्य आदर्शैः प्रेरिताः सन्तः समाजस्य राष्ट्रस्य च उत्थानाय कार्यं करणीयं, इति सा अवदत्।

कार्यक्रमावसरे जनपद–कल्याण–पदाधिकारी प्रमोद–रामेण सहिताः अन्ये पदाधिकारिण:, स्थानीयाः जनप्रतिनिधयः ग्रामवासिनश्च शहीदस्य प्रतिमायां पुष्पाञ्जलिं समर्प्य तस्य बलिदानं प्रति नतमस्तकाः अभवन्।

हिन्दुस्थान समाचार / अंशु गुप्ता