Enter your Email Address to subscribe to our newsletters

‘मिशन कर्मयोगी’ इत्यन्तर्गतं राज्ये अद्यावधि जातानां प्रगतिनां तथा अग्रिम-कार्ययोजनानां च समीक्षां कृतवान् - मुख्यमन्त्री योगी
लखनऊनगरम्, ०६ जनवरीमास: (हि.स.)। मुख्यमन्त्री योगी-आदित्यनाथः मङ्गलवासरे उच्चस्तरीय-समीक्षा-समितौ ‘मिशन कर्मयोगी’ इत्यन्तर्गतम् उत्तरप्रदेशे अद्यावधि-सिद्धां प्रगतिं तथा आगामि-कार्ययोजनां विस्तरेण समालोचितवान्। अस्यां सभायां मिशनस्य क्रियान्वयनम्, प्रशिक्षण-संरचना, डिजिटल-आधार-व्यवस्थायाः स्थितिः, विभिन्न-विभागेषु क्षमता-संवर्धन-संबद्धा: विषयाश्च गम्भीरतया चर्चिताः। अस्मिन्नेव अवसरे ‘कैपेसिटी बिल्डिंग कमीशन’-इत्यस्य अध्यक्षा एस.राधा-चौहान-इत्यनया उत्तरप्रदेशे मिशन-क्रियान्वयनस्य स्थितिविषये मुख्यमन्त्रिणे विस्तृता कार्ययोजना प्रस्तुता।
सभायां मुख्यमन्त्री योगी अवदत् यत् ‘मिशन कर्मयोगी’ प्रधानमन्त्रिणा नरेन्द्रमोदिना प्रवर्तिता परिवर्तनकारी प्रयत्न: अस्ति, यस्योद्देश्यं वैश्विक-दृष्टिकोणेन सह भारतीय-संस्कृतेः लोकाचार-निहित-मूल्यानि आत्मसात् कृत्वा तादृशं सक्षमं मानव-संसाधनं निर्माणम्। यत् प्रदेशस्य राष्ट्रस्य च विकासस्य प्रेरक-शक्तिः भवेत्। अनेन उपक्रमेण शासन-व्यवस्था भविष्यस्य समस्यानाम् अनुरूपम् अधिकं संवेदनशीलम्, उत्तरदायित्वपूर्णं तथा परिणामोन्मुखं च भवतीति सः अवदत्।
सभायां मुख्यमन्त्रिणा अवबोधित: यत् प्रधानमन्त्रिणः मार्गदर्शनेन ‘मिशन कर्मयोगी’ इत्यन्तर्गतं केन्द्रे ३० लक्षाधिकानां सिविल-सेवकानां, राज्येषु प्रायः २.२ कोटि कार्मिकानां, तथा नगरीय-स्थानीय-निकायेषु पञ्चायती-राज-संस्थासु च प्रायः ५० लक्ष कार्मिकानां क्षमता-संवर्धनं कर्तुं लक्ष्यं निश्चितम् अस्ति। अस्य मिशनस्य माध्यमेन देशव्यापिनः ७९० अधिकाः सर्वकारी-प्रशिक्षण-संस्थाः सुदृढीकृताः आधुनिकीकरणं च प्राप्यन्ते। सर्वेषां सिविल-सेवकानां सततं समग्रं च ऑनलाइन-प्रशिक्षणं सुनिश्चितं कर्तुं ‘आईगॉट’ (Integrated Government Online Training) इति डिजिटल-आधार-व्यवस्था स्थापिता अस्ति।
‘आईगॉट’ मञ्चः अद्य विश्वस्य सर्वाति-वृहत्तमः सर्वकार-प्रेरितः क्षमता-निर्माण-मञ्चः अभवत्। अस्मिन् मञ्चे अद्यावधि १.४५ कोट्यधिकाः उपयोक्तारः पञ्जीकृताः सन्ति। अत्र ४,१७९ प्रशिक्षण-पाठ्यक्रमाः उपलब्धाः सन्ति, येषु ८४० अधिकाः पाठ्यक्रमाः हिन्दी-भाषायां तथा १५ अन्यासु क्षेत्रीय-भाषासु ५४० अधिकाः पाठ्यक्रमाः समाविष्टाः सन्ति। अद्यावधि ६.७ कोट्यधिकाः पाठ्यक्रमाः सफलतया समापिताः, पाठ्यक्रम-पूर्णता-दरः ७० प्रतिशताधिकम् आसीत्—यत् अस्य मञ्चस्य व्यापक-स्वीकृतिं प्रभावशीलतां च सूचयति। ‘आईगॉट’ अनुप्रयोगः ५० लक्षाधिक-वारं डाउनलोड-इति कृतः अस्ति।
‘आईगॉट कर्मयोगी’ प्रभावी-क्रियान्वयने उत्तरप्रदेशः राष्ट्रे अग्रणी-राज्यत्वेन उद्भूतः। प्रदेशात् १८.८ लक्षाधिकाः कार्मिकाः मञ्चे सम्मिलिता: सन्ति, यत् वर्षे २०२५ देशव्यापिन्या सम्मिलित-सम्पन्नतायाः ९३ प्रतिशतं भवति। प्रदेशे १० लक्षाधिकैः उपयोक्तृभिः न्यूनतमः एकः प्रशिक्षण-पाठ्यक्रमः सफलतया समापितः। अद्यावधि उत्तरप्रदेशात् ७२ लक्षाधिकाः पाठ्यक्रम-पूर्णताः अभवन्, यत् वर्षे २०२५ देशे सम्पन्नानां पाठ्यक्रम-पूर्णतानां ९९ प्रतिशतं दर्शयति। एषा उपलब्धिः सुशासनस्य, दक्ष-प्रशासनस्य तथा नागरिक-केन्द्रित-सेवा-प्रणाल्याः निर्माण-दिशि महत्त्वपूर्णं पदं भवति।
मुख्यमन्त्री योगी अधिकारिणः निर्देशयन् अवदत् यत् सर्वे विभागाः तथा सर्वकारी-संस्थाः स्वावश्यकतानुसारं स्वान् पाठ्यक्रमान् निर्माय भारत-सर्वकारस्य ई-लर्निङ्ग-मञ्चे ‘आईगॉट’ पटले समायोजनं कुर्वन्तु। सः अवदत् यत् सर्वेषाम् अधिकारिणां कर्मचारिणां च कृते सप्त-दिवसीयं ‘क्षमता–विकास–कार्यक्रमम्’ अनिवार्यं भवतु, तच्च तेषां पदोन्नत्याः वार्षिक-गोपनीय-आलेखेन (एसीआर) सह सम्बध्यताम्।
मुख्यमन्त्री अवदत् यत् उपाम-सहितं प्रदेशे सञ्चालितानां सर्वेषां प्रशिक्षण-केन्द्राणां कृते कालानुरूपाः क्षमता-विकास-पाठ्यक्रमाः निर्मेयाः, येन प्रशिक्षण-केन्द्रेषु नव-प्रशिक्षणार्थिनां कार्य-दक्षता अधिका स्यात्। सः निर्देशं दत्तवान् यत् सर्वेषां विभागानां सर्वकारी-संस्थानानां च पाठ्यक्रमेषु कृत्रिम-बुद्धिमत्ता (एआई) तथा अन्तर्जाल-सुरक्षा अनिवार्यतया समावेश्येते।
मुख्यमन्त्री योगी अवदत् यत् ‘आईगॉट’ अन्तर्गतम् ‘अमृत-ज्ञान-कोष’ इति केस-स्टडी-मञ्चे विश्वव्यापिन्यः अध्ययन-प्रकरणानि उपलब्धानि सन्ति। उत्तरप्रदेशेऽपि विभिन्न-विभागेषु उत्तमानि अध्ययन-प्रकरणानि सन्ति, तानि ‘अमृत-ज्ञान-कोषे’ संयोक्तव्यानि। सः नूतन-विचारस्य नागरिक-केन्द्रित-दृष्टेः च अंगीकारे बलं दत्तवान्, तथा अवदत् यत् ज्ञानस्य, कौशलस्य, सकारात्मक-दृष्टेः च समन्वयनेन एव जनसेवायाः गुणवत्तायां वास्तविकं संशोधनं सम्भवति। ‘मिशन कर्मयोगी’ अस्यैव लक्ष्याय कार्य-संस्कृतिं सुदृढयति तथा जनभागीदारी-भावनां दृढयति, येन राष्ट्रिय-प्राथमिकतानां समयबद्धा प्रभावीनां च पूर्तिः सुनिश्चितीभवति।
मुख्यमन्त्री योगी अधिकारिणः अपि निर्देशितवान् यत् ‘मिशन कर्मयोगी’ इत्यन्तर्गतं सञ्चालितानां प्रशिक्षण-कार्यक्रमाणां गुणवत्ता, नियमित-मूल्यांकनं तथा व्यवहारिक-उपयोगितां विशेषतया परीक्ष्यताम्, येन शासनस्य प्रत्येकम् एककं प्रति अस्य लाभः उपयुज्येत तथा जनसेवा-मानकेषु निरन्तरं संशोधनं स्यात्। सः अवदत् यत् प्रदेशस्य विभिन्न-विभागेषु कार्यरताः अभियन्तारः नवीन-नमूनां, नवीन-प्रौद्योगिकीं च अवगच्छेयु:—एतदर्थं क्षमता-विकास-पाठ्यक्रमाः अवश्यं निर्मेयाः।
अन्ते मुख्यमन्त्री निर्दिष्टवान् यत् ‘मिशन कर्मयोगी’ इत्यन्तर्गतम् एएनएम, आशा-कार्यकर्तृणां, आरक्षी-कॉन्स्टेबलानां, पञ्चायती-राज-संस्थानां तथा नगरीय-निकाय-संबद्धानां क्षेत्र-कार्मिकानां कृते व्यवहारिकाः, कार्याधारिताः, आवश्यकतानुगुणा: च पाठ्यक्रमाः प्रशिक्षणं च प्राधान्येन आयोज्यन्ताम्, येन भूमिस्तरे सेवासु प्रभावशीलता संवेदनशीलता च अधिका भवेत्।
हिन्दुस्थान समाचार / अंशु गुप्ता