Enter your Email Address to subscribe to our newsletters

पूर्वी–चम्पारणम्, ०६ जनवरीमासः (हि.स.)। बिहार–प्रदेशस्य पूर्वी–चम्पारण–जनपदे कल्याणपुर–प्रखण्डान्तर्गतस्य कैथवलिया–ग्रामे निर्मीयमाणे विराट–रामायण–मन्दिरे प्रतिष्ठापनीयः भगवत: शिवस्य विराट् शिवलिङ्गः गण्डक–नद्यां निर्मितेन डुमरियाघाट–सेतुनाऽतिक्रम्य जनपद–सीमाम् अद्य प्रविष्टः।
अस्मिन् अवसरे तीव्र–शीतवाते अपि सहस्रशः श्रद्धालवः समागत्य ‘हर–हर–महादेव’ इति घोषैः सह शिवलिङ्गस्य दर्शनं पूजनं च कृतवन्तः। शिवलिङ्गः यदा डुमरियाघाट–सेतोः अग्रे प्रस्थितः, तदा नरसिंह–बाबा–मन्दिरात् आरभ्य दुबौली–चतुष्पथम्, रामपुर–खजुरिया–चतुष्पथं च हुसैनी–बाजार–पर्यन्तं मार्गस्य उभयो: पार्श्वयोः श्रद्धालूनां महान् सम्मर्द: अभवत्। स्थान–स्थानं मातृभिः, वृद्धैः, युवभिश्च पुष्प–मालाभिः बाबा–भोलेनाथस्य भव्यं स्वागतं कृतम्।सोमवासरे सायंकाले शिवलिङ्गः डुमरियाघाट–सेतु–समीपं प्राप्तः, यत्र श्रद्धालुभिः विधिवत् दर्शनं कृतम्। ततः परं दुबौली–चतुष्पथे तथा रामपुर–खजुरिया–चतुष्पथे श्रद्धालूनां सागर इव समूहो दृश्यते स्म। श्रद्धालूनाम् अत्यधिक–समागमं दृष्ट्वा प्रशासनं विशेष–सावधानताम् अवलम्बितवान्। राष्ट्रीय–राजमार्ग–२७ इत्यत्र एकस्य दिश: यातायातः अस्थायीरूपेण निरुद्धः।
अस्मिन् अवसरे राष्ट्रीय–राजमार्ग–प्राधिकरणेन (NHAI) दलेन सह बहुसंख्यकम् आरक्षी–बलम् अपि उपस्थित: आसीत्। अस्य ऐतिहासिकस्य क्षणस्य छायाचित्रं चलच्चित्रं च ग्रहीतुं जनानां मध्ये महान् उत्साहः प्रतिस्पर्धा च दृष्टा।
उल्लेखनीयं यत् तमिलनाडु–प्रदेशस्य महाबलीपुरम्–नगरे निर्मितः अयं जगतः सर्वाधिकः विराट् शिवलिङ्गः प्रायः २१० मेट्रिक–टन–भारयुक्तः तथा ३३ पाद–उन्नतः अस्ति। अस्य परिवहनार्थं ९६–चक्रयुक्तं विशेषं ट्रकयानं प्रयुक्तम्। अयं शिवलिङ्गः खरमासानन्तरं विशेष–पूजनं कृत्वा विराट–रामायण–मन्दिरे प्रतिष्ठापयिष्यते।
हिन्दुस्थान समाचार / Dheeraj Maithani