Enter your Email Address to subscribe to our newsletters

मुंबईनगरम्, ०६ जनवरीमास: (हि.स.)। कांग्रेसदलस्य नेता तथा पूर्वकेन्द्रीय–मन्त्री सुरेशः कलमाडीः (८२) अद्य प्रातःकाले पुणे–नगरे स्थिते दीनानाथ–मंगेशकर–चिकित्सालये दिवंगतः। चिकित्सोपचारार्थं सः केभ्यश्चित् दिनेभ्यः पूर्वमेव अस्मिन् चिकित्सालये प्रविष्टः आसीत्। सः स्वस्य पश्चात् सुसम्पन्नं कुटुम्बं विहाय गतः। कुटुम्बे पत्नी, पुत्रः, एका स्नुषा, द्वे विवाहिते पुत्र्यौ, एक: जामाता तथा पौत्र–पौत्र्यः सन्ति। तस्य पार्थिव–शरीरं पुणे–नगरे स्थिते “कलमाडी–हाउस” इति स्वगेहे अन्तिम–दर्शनार्थं स्थापितम् अस्ति। अद्य सायंकाले पुणे–नगरे नवी–पेठे वैकुण्ठ–श्मशान–घट्टे तस्य अन्त्येष्टिः करिष्यते।
सुरेशः कलमाडीः ०१ मई १९४४ तमे वर्षे जातः। राजनीतौ प्रवेशात् पूर्वं सः वायुसेनायां वैमानिकः (पायलटः) आसीत्। राजनीतौ आगत्य सः १९८२ तः १९९६ पर्यन्तं राज्यसभाया: सदस्यः आसीत्। सः १९९६ तथा २००४ तमे वर्षे लोकसभा–निर्वाचनं लब्धवान्। राजनीतिव्यतिरिक्तं सः क्रीडा–जगति अपि स्वकीयं विशिष्टं स्थानं निर्मितवान्। पुणे–उत्सवः तथा पुणे–मैराथनम् इत्येतयोः माध्यमेन सः पुणे–नगरस्य वैश्विक–स्तरे परिचयं कारितवान्। सः दीर्घकालं पुणे–क्षेत्रात् सांसदः आसीत् तथा रेल–राज्य–मन्त्री–पदम् अपि उढवान्।
सः भारतीय–ओलम्पिक–संघस्य अध्यक्षः अपि आसीत्। तस्य कार्यकाले भारतदेशेन राष्ट्रमण्डल–क्रीडाः (कॉमनवेल्थ गेम्स) आयोजिता:। तथापि तासु क्रीडासु कथित–अनियमिततानां (घपला) आरोपः तस्मिन् आरोपितः आसीत्, येन २०११ तमे वर्षे तस्य ग्रहणम् अभवत्, अनन्तरं च दलद्वारा सः निलम्बितः। तदनन्तरं पुणे–नगरे प्रभावशालीः इति ख्यातः कलमाडीः राजनैतिक–जीवनात् प्रायः निवृत्तः। अस्य प्रकरणे प्रवर्तन–निदेशालयेन (ई.डी.) पञ्चदश–वर्षानन्तरं न्यायालये समापन–प्रतिवेदनम् (क्लोज़र रिपोर्ट) समर्पितम्, यत्र तस्मै निर्दोषता (क्लीन–चिट्) प्रदत्ता। अस्य निर्णयस्य पश्चात् पुणे–नगरे तस्य समर्थकैः हर्षोत्सवः आचरितः; किन्तु तावता कालावधिना तस्य सम्पूर्णं राजनैतिक–जीवनं समाप्तप्रायं जातम् आसीत्। सः किञ्चित्कालात् रोगेण पीडितः आसीत्। तस्य निधनात् पुणे–नगरस्य राजनैतिके सामाजिके च क्षेत्रे गहनः शोकः व्याप्तः अस्ति।
हिन्दुस्थान समाचार / Dheeraj Maithani