Enter your Email Address to subscribe to our newsletters

वाराणसी,06 जनवरीमासः (हि.स.)। उत्तरप्रदेशस्य धार्मिकनगरे वाराणस्यां सङ्कष्टीचतुर्थ्यां मंगलवारे लोहतियास्थिते बृहत्गणेशकक्ष्यां “बन्धयत पॉलिथीनम्, काशीं गङ्गां च कुरुत सुन्दरां शुचिं च” इति सन्देशः निनादितः। “नमामि गङ्गे” समितेः सदस्यैः प्लास्टिकोपयोगं न्यूनं कर्तुं तथा एकवारोपयोगीयप्लास्टिकस्य (यथा प्लास्टिकपुटिकानां) कारणेन भवतः प्रदूषणस्य निरोधाय उद्देश्येन काश्यां पौराणिके बृहत्गणेशमन्दिरे वस्त्रनिर्मितान् थैलकान् समर्प्य भक्तेभ्यः वितरिताः।
“नमामि गङ्गे” काशिक्षेत्रस्य संयोजकः राजेशशुक्लः आह्वानं कृतवान् यत् भक्ताः प्रसादं अन्यं च द्रव्यं वहनीयम् इति हेतोः वस्त्रथैलानाम् उपयोगं कुर्युः, एकवारोपयोगीयप्लास्टिकं च परिहरेयुः, येन पर्यावरणे सकारात्मकः प्रभावः स्यात्, शुचिवातावरणं सुरक्षितजलस्रोतांसि सञ्जायेरन्। राजेशशुक्लेन उक्तं यत् अस्य आयोजनस्य उद्देश्यः प्लास्टिकअपशिष्टं न्यूनं कर्तुं, भक्तान् पर्यावरणहिताचारान् प्रति प्रोत्साहयितुं, प्रसादादिद्रव्यवाहनाय पुनःप्रयोज्यपर्यायान् प्रदानं च अस्ति। पर्यावरणसंरक्षणाय जागरूकतायां बृहत्गणेशमन्दिरस्य महन्तः पुजारयश्चापि उपस्थिताः आसन्।
हिन्दुस्थान समाचार