ग्रीन लैंडप्राप्तिः अमेरिकायाः राष्ट्रिय सुरक्षायै प्रथमा प्राथमिकताः - व्हाइट हाउस
वाशिंगटनम्, 07 जनवरीमासः (हि.स.)। व्हाइट हाउस मंगलवासरे अवदत् यत् राष्ट्रपतिः ट्रम्प् एतत् स्पष्टं कृतवान् यत् ग्रीनलैण्ड्-देशस्य प्राप्तिः संयुक्तराज्यस्य राष्ट्रियसुरक्षायाः प्रमुखा प्राथमिकता अस्ति। एतत् आर्क्टिक्-प्रदेशे शत्रून् निरोद्धुं अतीव
ea152a3ff6469c391ee8c79a01191d80_720090711.jpg


वाशिंगटनम्, 07 जनवरीमासः (हि.स.)।

व्हाइट हाउस मंगलवासरे अवदत् यत् राष्ट्रपतिः ट्रम्प् एतत् स्पष्टं कृतवान् यत् ग्रीनलैण्ड्-देशस्य प्राप्तिः संयुक्तराज्यस्य राष्ट्रियसुरक्षायाः प्रमुखा प्राथमिकता अस्ति। एतत् आर्क्टिक्-प्रदेशे शत्रून् निरोद्धुं अतीव आवश्यकम्। राष्ट्रपतिः स्वदलेन सह एतत् महत्त्वपूर्णं लक्ष्यं साधयितुं नानाविकल्पान् विषये चर्चां करोति।

सीएनएनवार्तायाः अनुसारम्, श्वेतगृहस्य पत्रकार-प्रवक्ता कैरोलिन् लेविट् इत्यस्याः विस्तीर्णे वक्तव्ये उक्तम् यत् सेनाध्यक्षस्य निकटे सदा एव अमेरिकीयसेनायाः उपयोगस्य विकल्पः अस्ति। सा दृतम् अवदत् यत् डोनाल्ड् ट्रम्प् ग्रीनलैण्ड् प्रापणाय अनेकान् विकल्पान् विचिन्तयति, च सेनायाः उपयोगस्य विकल्पोऽपि अद्यापि न समाप्तः।

लेविट्- वचनम् अस्याः सप्ताहस्य विदेशमन्त्रिणः मार्को रूबियो- नाम्नः उक्तेः अनन्तरं आगतम्। रूबियोने सांसदान् प्रति अवदत् यत् ट्रम्प्-प्रशासनम् ग्रीनलैण्ड्-क्रयणम् विचारयति। उल्लेखनीयम् यत् अमेरिकीयसेनया वेनेजुएलायाः नेतृ निकोलस् मादुरो-ग्रहणात् परं ट्रम्प्-प्रशासनस्य विस्तारवादीनीतिषु रुचिः वर्धिता अस्ति। ट्रम्प् रविवासरे एयर् फोर्स् वन्-विमाने पत्रकारान् प्रति अवदत् — “राष्ट्रीयसुरक्षादृष्ट्या अस्माभिः ग्रीनलैण्ड् अपेक्ष्यते।”

उल्लेखनीयम् यत् ग्रीनलैण्ड् डेनमार्क्-देशस्य अर्धस्वायत्तप्रदेशः अस्ति। डेनमार्क् उत्तर-अटलाण्टिक्-सन्धिसङ्गठनस्य (नाटो) सदस्यदेशः अस्ति। नाटो नाम सैन्य-राजनीतिकं संयोजनम् द्वात्रिंशत् राष्ट्राणां समूहः अस्ति। अस्य मुख्यो उद्देशः स्वसदस्यराष्ट्राणां स्वतन्त्रतां सुरक्षां च रक्षितुम्। एतत् सामूहिकरक्षणस्य सिद्धान्ते स्थापिति — यस्मिन् एकस्मिन् सदस्यराष्ट्रे आक्रमणं भवति, तर्हि सर्वेषां सदस्यानां विरुद्धं तस्य आक्रमणस्य गणना भवति

ट्रम्पस्य अस्मिन् अभिमते डेनमार्क्-प्रधानमन्त्री मेटे फ्रेडरिक्सन् सोमवासरे चेतावनीं दत्तवती यत् यदि अमेरिका आक्रमणं करिष्यति तर्हि तस्य परिणामरूपेण नाटो-सङ्घटनस्य विघटनम् भविष्यति।

---------------

हिन्दुस्थान समाचार