Enter your Email Address to subscribe to our newsletters


पटना, ०७ जनवरीमासः (हि.स.)। पटना–उच्चन्यायालयस्य नव–नियुक्तः मुख्य–न्यायाधीशः न्यायमूर्ति: संगम–कुमार–साहुः बुधवासरे बिहार–राज्यपालः आरिफ–मोहम्मद–खानः द्वारा बिहार–लोक–भवने पदस्य तथा गोपनीयतायाः शपथं गृहीतवान्। एतेन सह न्यायमूर्ति: संगम–कुमार–साहुः पटना–उच्चन्यायालयस्य सप्तचत्वारिंशत्तमः (४७) मुख्य–न्यायाधीशः अभवत्।
शपथ–ग्रहणानन्तरं न्यायमूर्ति: साहुः औपचारिकरूपेण मुख्य–न्यायाधीशस्य कार्यभारं स्वीकृतवान्। सः पूर्व–मुख्य–न्यायाधीशः पी.बी.–बजंथ्री–महाभागस्य सेवानिवृत्तेः अनन्तरम् एतत् उत्तरदायित्वं ग्रहीतवान्। तत: पूर्वं पटना–उच्चन्यायालये न्यायमूर्ति: सुधीर–सिंहः कार्यकारी–मुख्य–न्यायाधीशत्वेन दायित्वं निर्वहन् आसीत्।
शपथ–ग्रहण–समारोहे बिहारस्य मुख्यमन्त्री नितीश–कुमारः, उपमुख्यमन्त्री विजय–कुमार–सिन्हा, विधानसभा–अध्यक्षः प्रेम–कुमारः, जल–संसाधन–मन्त्री विजय–चौधरी इत्येतैश्च सहिताः पटना–उच्चन्यायालयस्य अनेके न्यायमूर्तयः, वरिष्ठ–अधिवक्तारः, प्रशासनिक–अधिकारिणः तथा अन्ये गणमान्यजनाः उपस्थिताः आसन्।
न्यायमूर्ति: संगम–कुमार–साहोः नियुक्ति–प्रक्रिया गत–मासे आरब्धा आसीत्। उच्चतम–न्यायालयस्य कोलेजियमेन १८ दिसम्बरमासे २०२५ तमे दिने सम्पन्नायां सभायां तस्य नाम केन्द्र–सर्वकाराय अनुशंसितम्। राष्ट्रपतिः स्वीकृतिं दत्तवति, तदनन्तरं केन्द्रीय–कानून–न्याय–मन्त्रालयेन तस्य नियुक्तेः आधिकारिक–अधिसूचना निर्गता।
कोऽस्ति न्यायमूर्ति: संगम–कुमार–साहुः
न्यायमूर्ति: संगम–कुमार–साहुः १९६४ तमे वर्षे जातः। सः ओडिशा–राज्यस्य कटक–नगरे स्थितात् नव–बाजार–उच्च–विद्यालयात् दशमी तथा द्वादशी–शिक्षां प्राप्तवान्, ततः स्टीवर्ट–सायन्स–महाविद्यालयात् बी.एस.सी.उपाधिम् अलभत। अनन्तरं उत्कल–विश्वविद्यालयात् आङ्ग्ल–भाषायां तथा ओडिया–भाषायां च एम.ए. उपाधिं प्राप्तवान्।
विधि–शिक्षा तथा न्यायिक–बोधः तस्मै पैतृक–रूपेण लब्धः। तस्य पिता शरत–चन्द्र–साहुः ओडिशा–राज्यस्य प्रसिद्धः फौजदारी–विधि–विशेषज्ञः आसीत्। पितुः सान्निध्ये एव न्यायमूर्ति: साहुः अधिवक्तु: सूक्ष्मताः अधीतवान्। सः २६ नवम्बरमासे १९८९ तमे दिने ओडिशा–राज्य–बार–परिषद: मध्ये अधिवक्तारूपेण पंजीकृतः अभवत् तथा डॉ.मनोरंजन–पण्डा–महाभागेन सह कार्यमपि कृतवान्।
फौजदारी–प्रकरणेषु तस्य विशेषा प्रतिष्ठा आसीत्। स्वस्य दक्षतया अनुभवेन च ०२ जुलाईमासे २०१४ तमे दिने सः ओडिशा–उच्चन्यायालयस्य न्यायाधीशः नियुक्तः अभवत्। अद्य सः पटना–उच्चन्यायालयस्य मुख्य–न्यायाधीशत्वेन महत्त्वपूर्णं न्यायिक–दायित्वं वहति।
हिन्दुस्थान समाचार / अंशु गुप्ता