Enter your Email Address to subscribe to our newsletters

नवदिल्ली, ०७ जनवरीमासः (हि.स.)। भारतस्य मुख्य–निर्वाचन–आयुक्तः तथा इंटरनेशनल–आईडिया–संस्थायाः अध्यक्षः ज्ञानेश–कुमारः बुधवासरे निर्वाचन–सदने, दिल्लीनगरे, भारतस्थेन जर्मनी–राजदूतेन डॉ.फिलिप–एकरमैन–महाभागेन सह साक्षात्कारं कृतवान्।
एष: साक्षात्कार: भारत–जर्मनी–देशयोः मध्ये लोकतन्त्रस्य, निर्वाचन–प्रक्रियाणां तथा संस्थागत–सहयोगस्य सुदृढीकरणस्य सन्दर्भे अत्यन्तं महत्त्वपूर्ण: मन्यते। भारतीय–निर्वाचन–आयोगस्य आधिकारिक–सामाजिक–माध्यम–पटल-द्वारा स्थापितेषु छायाचित्रेषु उभावपि गणमान्यौ परस्परं हस्तमेलनं कुर्वन्तौ तथा गम्भीरां चर्चां कुर्वन्तौ दृश्येते।
हिन्दुस्थान समाचार / अंशु गुप्ता