Enter your Email Address to subscribe to our newsletters

कटिहारः, 07 जनवरीमासः (हि. स.)।
मुख्यमन्त्रिणः “प्रगति-यात्रा” इत्यस्य घोषणासम्बन्धे जिलाधिकारी आशुतोषद्विवेदी इत्यनेन उच्चस्तरीया बैठकाऽयोजिता। उपवेशने जनपदे प्रवर्तमानानां विकास-परियोजनानां समीक्षा कृताऽभूत् तथा सम्बद्ध-विभागीय-अधिकाऱेभ्यः अद्यतन-प्रगति-वृत्तं कार्ययोजनायाश्च विवरणं गृहीतम्।
राजेन्द्र-स्टेडियमस्य स्पोर्ट्स्-कॉम्प्लेक्स्-रूपे विकासाय २८ कोटि-रूप्यकाणां प्राक्कलिता राशि निर्धारिता अस्ति। एषा परियोजना कटिहार-जनपदस्य युवानां कृते महानवसरः भविष्यति, यत्र ते स्वीयं क्रीडाकौशलं विकसितुं शक्ष्यन्ति। स्टेडियम् मध्ये आधुनिक-सुविधानां निर्माणं भविष्यति, यत्र इनडोर्-स्टेडियम्, स्विमिङ्-पूल्, जिम् इत्यादयः सम्मिलिताः भविष्यन्ति।
गोगबील्-झीलस्य संरक्षणं पर्यटन-स्थलरूपेण सौन्दर्यीकरणं च कर्तुं १०.२२ कोटि-रूप्यकाणां प्राक्कलिता राशि निर्धारिताऽस्ति। एषा परियोजना न केवलं पर्यटन-विकासं करिष्यति, अपि तु स्थानीय-जनानां कृते रोजगार-अवसरान् अपि उत्पादयिष्यति। झीलपर्यन्तप्रदेशे पिकनिक-स्थलानि, वाफ्ट्-राइड्, नाव-विहारव्यवस्था च क्रीयते।
इण्टरसेप्शन् एण्ड् डाइवर्जन (IND) सीवेज्-ट्रीटमेण्ट्-प्लाण्ट् (STP) च निर्माणाय ३६४.३५ कोटि-रूप्यकाणां प्राक्कलिता राशि निर्धारिता। एषा परियोजना कटिहारस्य जलसंसाधनसंरक्षणे नगर-स्वच्छतायाञ्च महत्त्वपूर्णभूमिं वहिष्यति। STP-द्वारा नगरस्य सीवेज्-जलस्य उपचारः भविष्यति, येन जलप्रदूषणं न्यूनं कर्तुं शक्यते।
कटिहार्-जिलान्तर्गते कटिहार्-रेल्-मण्डलस्य समपार्-संख्या L.C No.-KM-1 (km-0/7–8) (कटिहार–मुकुरिया) सन्तोषी-चौक् तथा KJ-1 (km-0/8–9) (कटिहार–जोगबनी) साहेबपारा-चौक् एतयोः मध्ये रेलमार्गोपरी-पुलस्य निर्माणाय १९३.६५ कोटि-रूप्यकाणां प्राक्कलिता राशि निर्धारिता। एषा परियोजना कटिहारस्य यातायातं सुगमं करिष्यति दुर्घटनानां निवारणे च साहाय्यं करिष्यति।
विकास-परियोजनासु आजमनगर-स्थिते बाबा-गोरखनाथ-धाम-मन्दिरे पर्यटकीय-संरचनानां निर्माणम् (प्राक्कलिता राशि—१४.२ कोटि-रूप्यकाणि), “अमृत् 2.0” अन्तर्योजने जलापूर्तियोजना—कटिहार् (प्राक्कलिता राशि—१५०.३० कोटि-रूप्यकाणि), कटिहार्-सदर्, आजमनगर्, कोढ़ा, फल्का, बरारी, प्राणपुर इत्यादिषु नूतन-प्रखण्ड-सह-अञ्चल-कार्यालय-भवन-निर्माणम् (प्रति-प्रखण्डं १६.६२१ कोटि-रूप्यकाणि; कुलं ९९.७२६ कोटि-रूप्यकाणि) तथा डण्डखोरा-प्रखण्डे प्रखण्ड-सह-अञ्चल-कार्यालय-सह-आवासीय-परिसर-निर्माणम् (प्राक्कलिता राशि—३०.७४१७ कोटि-रूप्यकाणि) अपि अन्तर्भवन्ति।
जिलाधिकारिणा सम्बद्धअधिकाऱे निर्देशाः दत्ताः यत् कार्याणि कालमर्यादायां समाप्तव्यानि। सः अवदत्—एतेषां परियोजनानां क्रियान्वयनं शीघ्रतया करणीयम्। एतेषां परियोजनानां सम्पन्नतया कटिहारस्य विकासः भविष्यति जनानां च श्रेष्ठाः सुविधाः उपलभ्यन्ते।
---------------
हिन्दुस्थान समाचार