Enter your Email Address to subscribe to our newsletters


नवदिल्ली, 07 जनवरीमासः (हि.स.)। निर्वाचनायोगः २१ ततः २३ जनवरीपर्यन्तं अत्र भारतमण्डपे भारतान्तरणीय-लोकतन्त्र-चुनाव-व्यवस्थापन-विषये अन्ताराष्ट्रिय-सम्मेलनस्य (IIICDEM 2026) आयोजनं कर्तुं सज्जोऽस्ति। अस्य त्रिदिनात्मकस्य सम्मेलनेस लक्ष्यं वैश्विकस्तरे लोकतन्त्रस्य तथा निर्वाचनव्यवस्थापनस्य सम्बन्धिनां परिस्थितीनां, नवोन्मेषाणां, श्रेष्ठाचरणानां च विषये सार्थकसंवादस्य प्रवर्तनम् अस्ति।
इदं सम्मेलनं इंडिया इन्टरनेशनल इन्स्टिट्यूट ऑफ डेमोक्रेसी एण्ड इलेक्शन मॅनेजमेन्ट् (IIIDEM) तथा इन्टरनेशनल IDEA इत्येताभ्यां संस्थाभ्यां सहकार्येण आयोज्यते। अद्य अस्य संबंधे द्वारका-स्थिते संस्थाने पत्रकार-वार्ता आयोजिताभूत। तां संस्थानस्य महानिदेशकः राकेशवर्मा अभाषत।
अस्मिन् अवसरे IIICDEM–2026 इत्यस्य लोगो अपि उद्घाटितः। वर्मामहाभागेन उक्तं यत् सः लोकतन्त्रं, सहभागितां, संस्थागत-ईमानदारीं, अन्ताराष्ट्रिय-सहयोगं च दर्शयति। समग्ररूपेण सः लोगो स्पष्टं संदेशं ददाति—लोकतन्त्रं जनता-संचालितं, संस्थाभिः समर्थितं, वैश्विकतया संलग्नं च अस्ति, यस्मिन् भारतस्य भूमिका केन्द्रीयाऽपि जिम्मेदाराऽस्ति।
उल्लेखनीयं यत् भारतदेशेन २०२६ तमे वर्षे इन्टरनेशनल IDEA इत्यस्य अध्यक्षता अपि स्वीकृता। तस्यानुसारम् एतत् सम्मेलनं वैश्विक-लोकतान्त्रिक-विमर्शस्य महत्त्वपूर्णं मंचरूपेण प्रतिष्ठां प्राप्स्यति। अस्य लक्ष्यं विभिन्नदेशानां निर्वाचन-व्यवस्थापन-निकायानां मध्ये अन्ताराष्ट्रियसहयोगस्य सुदृढीकरणम्, सहकारी-वैश्विक-परिस्थितिषु सामूहिकदृष्टेः विकासः, श्रेष्ठप्रथानां नवोन्मेषाणां च आदानप्रदानं, समाधानानां सहनिर्माणं च अस्ति।
वर्मामहाभागः उक्तवान् यत् सम्मेलनस्य मुख्यविषयः— “समावेशी, शांतिपूर्ण, सुदृढ तथा सतत् विश्वाय लोकतन्त्रं” इति। तस्याधीनौ द्वौ प्रमुखौ विषयगत-स्तम्भौ निर्धारितौ — (१) भविष्याय लोकतन्त्रस्य पुनर्कल्पना, (२) सतत्-लोकतन्त्राय व्यावसायिकानां स्वतन्त्राणां निर्वाचन-प्रबन्धन-निकायानाम् अनिवार्यता।
सम्मेलनस्य कालमध्ये सामान्यम् अपि पूर्णसत्राणि च भविष्यन्ति। तेषु उद्घाटनसत्रम्, EMB-नेतॄणां पूर्णोपवेशनं, EMB-कार्यसमूहबैठक, ECI-Net इत्यस्य उद्घाटनं च भविष्यति। तदतिरिक्तं वैश्विकविषयेषु सप्त सत्राणि, अन्ताराष्ट्रिय-निर्वाचन-मानकान् विषयीकृत्य एकादश-मॉडल्-सत्राणि, निर्वाचन-प्रक्रियासु २५ श्रेष्ठप्रथानां नवोन्मेषाणां च केन्द्रीकृतानि सत्राणि आयोजितानि भविष्यन्ति।
IIICDEM 2026 इति सम्मेलने विश्वस्य नानादेशेभ्यः निर्वाचन-प्रबन्धन-निकायानां प्रमुखाः वरिष्ठाधिकारिणश्च, अन्तरराष्ट्रीय-संस्थापनां प्रतिनिधयः, अनुभवी-निर्वाचन-विशेषज्ञाः तथा IIT, IIM, NLU, IIMC इत्यादि प्रतिष्ठित-संस्थापनां शिक्षाविदोऽपि भागं ग्रहीष्यन्ते। अस्मिन् सम्मेलनमध्ये ४२ निर्वाचन-प्रबन्धन-निकायेभ्यः अधिकाधिकं ९० अन्ताराष्ट्रिय-प्रतिनिधीनां सहभागिता अपेक्ष्यते; तथा ३६ विषयगत-समूहेषु २० राष्ट्रिय-अन्ताराष्ट्रिय-शैक्षिक-विशेषज्ञानां सहभागिता अपि भविता, येन एतत् सम्मेलनं व्यापकः प्रभावशाली च वैश्विको मंचो भविष्यति।-----------
हिन्दुस्थान समाचार