आइसीजीएस–समुद्र–प्रतापः भारतस्य समुद्री–सुरक्षायां मील–स्तम्भः - प्रधानमन्त्री मोदी
नवदिल्ली, ०७ जनवरीमासः (हि.स.)। प्रधानमन्त्री नरेन्द्र–मोदी बुधवासरे भारतीय–तटरक्षक–जलपोतस्य ‘आइसीजीएस–समुद्र–प्रताप:’ इत्यस्य नौसैनिक–क्षेत्रे समावेशनस्य प्रशंसां कृत्वा तद् भारतस्य समुद्री–सुरक्षा–दिशि तथा आत्मनिर्भर–रक्षा–क्षमता–विकासे महत्त्वपू
प्रधानमंत्री नरेन्द्र मोदी


नवदिल्ली, ०७ जनवरीमासः (हि.स.)। प्रधानमन्त्री नरेन्द्र–मोदी बुधवासरे भारतीय–तटरक्षक–जलपोतस्य ‘आइसीजीएस–समुद्र–प्रताप:’ इत्यस्य नौसैनिक–क्षेत्रे समावेशनस्य प्रशंसां कृत्वा तद् भारतस्य समुद्री–सुरक्षा–दिशि तथा आत्मनिर्भर–रक्षा–क्षमता–विकासे महत्त्वपूर्णं पदम् इति अवदत्।प्रधानमन्त्री अवदत् यत् अस्य आधुनिक–जलपोतस्य समावेशनेन भारतस्य तटीय–निरीक्षणं तथा समुद्री–हितानां संरक्षणम् अधिकं सुदृढं भविष्यति। अयं जलपोतः रक्षा–क्षेत्रे आत्मनिर्भर–भारत–संकल्पनां सशक्तां करिष्यति तथा देशस्य सुरक्षा–व्यवस्थायै नूतनां धारां दास्यति।

प्रधानमन्त्री सामाजिक–माध्यम–मञ्चे ‘एक्स’ इत्यत्र रक्षामन्त्रिण: राजनाथ–सिंहस्य सन्देशं प्रति प्रत्युत्तरं दत्त्वा अलिखत् यत् “आइसीजीएस–समुद्र–प्रतापः अनेकाभिः कारणैः विशिष्टः अस्ति। अयं जलपोतः केवलं सुरक्षा–तन्त्रं न सुदृढं करिष्यति, अपि तु अस्मिन् प्रयुक्ता नूतना प्रौद्योगिकी पर्यावरणं दृष्ट्वा विकसिताभवत्, या स्लामी पर्यावरण–अनुकूलं संचालनं प्रोत्सहयति।”

प्रधानमन्त्री पुनः अवदत् यत् “अस्य पोतस्य आयोगीकरणं भारतस्य समुद्री–यात्रायाम् एकः महत्त्वपूर्णः मील–स्तम्भः अस्ति। एतेन स्पष्टं भवति यत् भारतदेश: अद्य रक्षा–तथा समुद्री–सुरक्षा–विषये अन्येषाम् उपरि केवलं आश्रितः न भवितुम् इच्छति, अपि तु स्वशक्तिं स्वयमेव वर्धयितुं प्रयतते। एषा प्रक्रिया आत्मनिर्भरता–संकल्पनां सुदृढां करोति, अस्माकं सुरक्षा–तन्त्रं विस्तारयति तथा स्थायी–भविष्यं प्रति अस्माकं प्रतिबद्धताम् अपि प्रदर्शयति।”

हिन्दुस्थान समाचार / अंशु गुप्ता