बहुभाषिक-शिक्षैव झारखण्डस्य सांस्कृतिक-परिचयः — सुदिव्यः
राँची, ०७ जनवरीमासः (हि.स.)।झारखण्ड-प्रदेशः भाषिक-विविधतायाः सजीवम् उदाहरणम् अस्ति। अस्मिन् राज्ये पञ्च जनजातीय-भाषाः चतस्रः क्षेत्रीय-भाषाः च प्रचलिताः सन्ति, तथा च राज्यस्य चतुर्विंशतिः जनपदाः एकया एव भाषया संयोक्तुं न शक्यन्ते। बहुभाषिक-शिक्षा ए
कार्यक्रम की तस्‍वीर


राँची, ०७ जनवरीमासः (हि.स.)।झारखण्ड-प्रदेशः भाषिक-विविधतायाः सजीवम् उदाहरणम् अस्ति। अस्मिन् राज्ये पञ्च जनजातीय-भाषाः चतस्रः क्षेत्रीय-भाषाः च प्रचलिताः सन्ति, तथा च राज्यस्य चतुर्विंशतिः जनपदाः एकया एव भाषया संयोक्तुं न शक्यन्ते। बहुभाषिक-शिक्षा एव झारखण्डस्य सांस्कृतिक-परिचयः, समावेशितायाः तथा गुणवत्तापूर्ण-शिक्षायाः आधारशिला अस्ति—इति उच्च-तथा-प्राविधिक-शिक्षा-मन्त्री सुदिव्य-कुमारः अवदत्।सः बुधवासरे निवासस्थल-‘चाणक्या-बीएनआर’-इत्यत्र आयोजिता बहुभाषिक-शिक्षा-विषयका राष्ट्रिय-परिषदः (नेशनल् कॉन्क्लेव्) उद्घाटन-सत्रे सम्बोधनं कुर्वन् एतान् विचारान् प्रस्तुतवान्।मातृभाषा-आधारित-शिक्षायाः वैज्ञानिकं भावनात्मकं च महत्त्वं रेखाङ्कयन् मन्त्री अवदत् यत् माता एव बालकस्य प्रथम-शिक्षिका भवति, अत एव ‘मदर-टङ्ग’ इति अवधारणा शिक्षायाः मूलाधारः अस्ति। यदि प्राथमिक-शिक्षा सरला, रुचिरा तथा व्यवहारिकी न भविष्यति, तर्हि सा केवलं कृष्णफलक-सीमायामेव अवतिष्ठेत्, जागरूक-नागरिकाणां निर्माणं च कर्तुं न शक्नोति।

लुप्तप्रायाः जनजातीय-क्षेत्रीय-भाषाः

मन्त्री चिन्तां व्यक्तवान् यत् अद्य जनजातीयाः क्षेत्रीयाः च भाषाः लोपं प्रति गच्छन्ति। बालकानां स्व-मातृभाषायां शिक्षणमेव तासां भाषाणां संरक्षणस्य प्रथमं सर्वाधिकं च सशक्तं प्रयत्नम् अस्ति। ‘खोरठा’-भाषायाः उदाहरणं दत्त्वा सः अवदत् यत् मातृभाषायां शिक्षणेन एव भाषाणां विशिष्टाः ध्वनयः तासां च अस्मिता जीविता भवितुं शक्नोति।सः अवबोधितवान् यत् सम्प्रति ‘पलाश’-परियोजना राज्यस्य केवलम् अष्टसु जनपदेषु सञ्चालिता अस्ति, किन्तु तस्याः विस्तारः शेषेषु षोडश-जनपदेषु अपि करणीयः। अस्मिन् सन्दर्भे मन्त्री मुख्यमन्त्री हेमन्त-सोरेनं तथा विभागीय-सचिवं प्रति अनुरोधं कृतवान् यत् खोरठा-नागपुरी-पञ्चपरगनिया-कुरमाली-इत्यादयः क्षेत्रीय-भाषाः शिक्षाव्यवस्थायां सशक्ततया समावेशनीयाः।अस्मिन् अवसरे बहुभाषिक-शैक्षणिक-सामग्री-निर्माणे योगदानं कृतवत्यः छात्र्यः तथा शिक्षकाः सम्मानिताः। मन्त्री अवदत् यत् राज्य-स्तरे शिक्षकेभ्यः प्रदत्तं सम्मानम् अन्येषु शिक्षकेषु प्रेरणास्रोतः भविष्यति।देशस्य विविध-राज्येभ्यः आगतानां प्रतिनिधीनां स्वागतं कुर्वन् सः विश्वासं व्यक्तवान् यत् एषा द्विदिवसीया राष्ट्रिय-परिषदः झारखण्डस्य विद्यालयीन-शिक्षायै नूतनां दिशं प्रदास्यति।कार्यक्रमे अनेके शिक्षाविदः, विभागस्य अधिकारिणः तथा अन्ये अपि गणमान्या: उपस्थिताः आसन्।

हिन्दुस्थान समाचार / अंशु गुप्ता