कोलकातायां द्विदिवसीय–प्रवासे जे.पी.–नड्डा, प्रशासनिक–राजनीतिक–सभासु सहभागं करिष्यति
कोलकाता, ०७ जनवरीमास: (हि.स.)। भारतीय–जनता–दलस्य (भा.ज.पा.) राष्ट्रीयाध्यक्षः तथा केन्द्रीय–स्वास्थ्य–मन्त्री जे.पी.–नड्डा बुधवासर–रात्रौ कोलकाता–नगरम् आगमिष्यति। स्वस्य अस्मिन् द्विदिवसीय–प्रवासे सः द्वयोः महत्त्वपूर्णयोः सभयो: सहभागं करिष्यति—एका
जेपी नड्डा


कोलकाता, ०७ जनवरीमास: (हि.स.)। भारतीय–जनता–दलस्य (भा.ज.पा.) राष्ट्रीयाध्यक्षः तथा केन्द्रीय–स्वास्थ्य–मन्त्री जे.पी.–नड्डा बुधवासर–रात्रौ कोलकाता–नगरम् आगमिष्यति। स्वस्य अस्मिन् द्विदिवसीय–प्रवासे सः द्वयोः महत्त्वपूर्णयोः सभयो: सहभागं करिष्यति—एका प्रशासनिक–सभा तथा अपरा राजनीतिक–संगठनात्मक–सभा च। एतां सूचनां दलस्य राज्य–समित्याः सम्बद्धः एकः सदस्यः दत्तवान्।

गुरुवासर–प्रातःकाले जे.पी.–नड्डा नगरे आयोजिते स्वास्थ्य–विषयक-गोष्ठ्यां सहभागं करिष्यति, तत्र भाषणमपि दास्यति। ततः अनन्तरं सः पश्चिम–बङ्गाल–भा.ज.पा.–दलस्य अत्यन्तं महत्त्वपूर्णायाः संगठनात्मक–सभायाः अध्यक्षतां करिष्यति। सभानन्तरं सः गुरुवासर–सायंकाले एव दिल्लीं प्रत्यागमिष्यति।

दल–सूत्राणाम् अनुसारं पश्चिम–बङ्गाल–भा.ज.पा.–दलस्य प्रदेशाध्यक्षः तथा राज्यसभासदस्यः समिक–भट्टाचार्यः विशेषरूपेण जे.पी.–नड्डाम् अस्यां संगठनात्मक–सभायां सहभागाय तथा दल–नेतॄणां मार्गदर्शनाय आमन्त्रितवान् आसीत्। राष्ट्रियाध्यक्षेन तद् आमन्त्रणं स्वीकृतम्। एषा संगठनात्मक–सभा पूर्णतया निरुद्ध–कक्षे सम्पन्ना भविष्यति। अनुमान्यते यत् अस्यां सभायां जे.पी.–नड्डा राज्ये अस्मिन् वर्षे भविष्यमाणानि विधानसभा–निर्वाचनानि इति विषये दलस्य निर्वाचन–रणनीतिं स्वविचारैः सह चर्चां करिष्यति तथा भावी–दिशं निश्चितां करिष्यति।

उल्लेखनीयं यत् गत–मासे केन्द्रीय–गृहमन्त्री अमित–शाहः कोलकाता–नगरस्य त्रिदिवसीयं प्रवासं कृतवान् आसीत्। तदेव च अस्य जनवरी–मासस्य अन्ते प्रधानमन्त्री नरेन्द्र–मोदी–महाभागस्य अपि राज्ये द्विदिवसीय–प्रवासः प्रस्तावितः अस्ति, यत्र सः द्वयोः जनपदयोः जनसभाः सम्बोधयिष्यति। एतेषां प्रवासयोः मध्ये जे.पी.–नड्डायाः आगमनं तथा संगठनात्मक–सभायाः अध्यक्षता एतत् सूचयति यत् भा.ज.पा.–नेतृत्वं विधानसभा–निर्वाचन–सज्जाभ्यः सर्वोच्चं प्राधान्यं ददाति।

स्वस्य साम्प्रतिक–प्रवासकाले केन्द्रीय–गृहमन्त्री अमित–शाहः राज्य–नेतृत्वं निर्वाचन–सज्जा तथा प्रचार–रणनीतिं प्रति अनेकान् महत्त्वपूर्णान् प्रस्तावान् दत्तवान् आसीत्। तेषु प्रमुखः प्रस्ताव: तृणमूल–कांग्रेस–दलस्य तेन प्रचारस्य निरन्तरं प्रत्युत्तरं दानम् आसीत्, यस्मिन् मतुआ–समुदायस्य मतदातॄणां मध्ये विशेष–गहन–पुनरीक्षणेन (एस.आई.आर.) तेषां मतदान–अधिकाराः नष्टा: भविष्यन्ति इति भीतिः प्रसारिता इति आरोपः कृतः अस्ति।अमित–शाहः राज्य–नेतृत्वं मतुआ–समुदायस्य मतदातृभिः सह नियमित–संवाद–कार्यक्रमान् आयोजयितुं तथा तेषां मतदान–अधिकाराः सुरक्षिताः एव सन्ति इति विश्वासं दातुं निर्देशान् अपि दत्तवान्। अपि च वाम–मोर्चा–दलस्य तथा राज्य–कांग्रेस–दलस्य केषाञ्चन नेतॄणां द्वारा भा.ज.पा. तथा तृणमूल–कांग्रेस–दलयोः शीर्ष–नेतृत्वयोः मध्ये कथित–गुप्त–सन्धिविषये प्रसारितस्य प्रचारस्य निरन्तर–खण्डनं कर्तुं अपि सः उक्तवान्।

राजनैतिक–विशेषज्ञाः मन्यन्ते यत् केन्द्रीय–नेतॄणां निरन्तर–प्रवासाः स्पष्टतया सूचयन्ति यत् भा.ज.पा. पश्चिम–बङ्गाल–विधानसभा–निर्वाचनं प्रति अत्यन्तम् आक्रामकतया तथा संगठिततया रणनीत्या सह पूर्णतया सज्ज: भूत्वा रणाङ्गणे अवतर्तुं उद्युक्ता अस्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता