Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 07 जनवरीमासः (हि.स.)।
प्रधानमन्त्रिणा नरेन्द्रमोदिना अस्य वर्षस्य दशमद्वादशकक्ष्ययोः परिषद्-परीक्षाणां पूर्वं आयोज्यमानस्य बहुप्रतीक्षितस्य कार्यक्रमस्य ‘परीक्षा पे चर्चा’ सम्बन्धे देशव्यापिकान् विद्यार्थीन्, अभिभावकान्, शिक्षकाश्च प्रति संवादाय आह्वानं कृतम्। प्रधानमनत्रिणा देशस्य “एक्जाम् वारियर्स्” इति अभिहितेभ्यः विद्यार्थिभ्यः तेषां प्रश्नान्, विचारान्, अनुभवान् च साझा कर्तुं अनुरोधः कृतः, येन ते अन्यविद्यार्थिनां प्रेरणास्रोतः भवितुम् अर्हन्ति।
प्रधानमन्त्रिणः विद्यार्थिभिः संवादस्य वार्षिकः कार्यक्रमः ‘परीक्षा पे चर्चा’ इत्यस्य नवं संस्करणं भविष्यति, यः अस्मिन् एव जनवरीमासे आयोज्यते। प्रधानमनत्रिणा उक्तं यत् सः विद्यार्थिभिः अभिभावकैः शिक्षकैः च सह परीक्षासम्बद्धेषु विविधान् पक्षेषु संवादं कर्तुं अतीव उत्सुकः अस्ति।
प्रधानमन्त्रिणा मोदिना सोशलमीडियामञ्चे ‘एक्स’ इति नामधेये संदेशं प्रकाशित्य उक्तं यत् अस्य संवादस्य प्रमुखः केन्द्रबिन्दुः भविष्यति—परीक्षातणावस्य निवारणम्, शान्त-आत्मविश्वासपूर्णभावस्य धारणम्, सकारात्मकमानसिकतया परीक्षा-अनुबन्धितेषु कार्येषु सहभागिता च। तेन लिखितं यत् परीक्षाः जीवनस्य स्वाभाविकभागाः सन्ति, ताः न भाररूपेण, अपि तु आत्मविश्वासवृद्धेः अवसररूपेण द्रष्टव्याः।
प्रधानमन्त्रिणा देशव्यापिकेभ्यः “एक्जाम् वारियर्स्” इत्युच्यमानेभ्यः आग्रहः कृतः यत् ते स्वप्रश्नैः सह स्वानुभवानपि साझा कुर्वन्तु, येन तेषां शिक्षा संघर्षश्च अन्यविद्यार्थिनां प्रेरणाभवेत्। तेनोक्तं यत् विद्यार्थिनां वास्तविकानुभवाः ‘परीक्षा पे चर्चा’ इत्यस्य सार्थकत्वं वर्धयन्ति।
उल्लेखनीयम् यत् ‘परीक्षा पे चर्चा’ इति शिक्षामन्त्रालयस्य प्रमुखा पहलाऽस्ति, या प्रति वर्षं बोर्ड्परीक्षाणां पूर्वं आयोज्यते। अस्य कार्यक्रमस्य अन्तर्गते प्रधानमन्त्री नरेन्द्रमोदी स्वयम् विद्यार्थिभिः प्रत्यक्षं संवादं कुर्वन्तः तान् परीक्षातणावस्य सामना, समयव्यवस्थापनम्, एकाग्रता, जीवनमूल्यानि च विषये मार्गदर्शनं ददाति। वर्षे 2026 अपि अस्मिन् कार्यक्रमे देशभरात् चयनिताः विद्यार्थी, शिक्षक, अभिभावकाः च भागं ग्रहिष्यन्ति।
गतपूर्वसंस्करणेषु ‘परीक्षा पे चर्चा’ इति कार्यक्रमं देशविदेशेषु लक्षलक्षविद्यार्थिभिः सजीवं डिजिटलमार्गेण च दृष्टम् श्रुतं च। अस्य कार्यक्रमस्य उद्देश्यः अस्ति—परीक्षां भयस्य रूपेण न, अपि तु शिक्षा-आत्मविकासयोः प्रक्रियारूपेण प्रतिष्ठापयितुं विद्यते।
---------------
हिन्दुस्थान समाचार