Enter your Email Address to subscribe to our newsletters

नवदिल्ली, ०७ जनवरीमासः (हि.स.)। पश्चिम–एशिया–क्षेत्रे वर्तमानानाम् अस्थिर–परिस्थितीनां मध्ये भारतम् इजरायल–देशः च आतंकवादस्य विरुद्धम् एकीकृतरूपेण संघर्षं कर्तुं तथा द्विपक्षीयां रणनीतिक–सहभागम् अधिकं सुदृढीकर्तुं स्वसंकल्पं पुनः व्यक्तवन्तौ। बुधवासरे भारतस्य प्रधानमन्त्री नरेन्द्र–मोदी इजरायल–प्रधानमन्त्री बेन्जामिन–नेतन्याहूः च दूरभाष–संवादं कृतवन्तौ।
प्रधानमन्त्री–कार्यालयस्य सूचनानुसारं प्रधानमन्त्री नरेन्द्र–मोदिना इजरायल–प्रधानमन्त्री बेन्जामिन–नेतन्याहू–महाशयस्य दूरभाष–आह्वानं प्राप्तम्। उभौ नेतारौ परस्परं नववर्षस्य शुभाशंसाः प्रेषितवन्तौ, भारत–इजरायल–जनतयो: शान्तिं समृद्धिं च कामितवन्तौ।
संवाद–काले उभौ प्रधानमन्त्रिणौ २०२६ तमे वर्षे भारत–इजरायल्–रणनीतिक–सहभागम् अधिकं सुदृढीकर्तुं प्राथमिकतानां परिचयं कृतवन्तौ। लोकतान्त्रिक–मूल्यानां, गभीर–पारस्परिक–विश्वासस्य तथा भविष्याभिमुख–दृष्टिकोणस्य आधारे द्विपक्षीय–सहकार्यस्य विस्ताराय सहमतिं व्यक्तवन्तौ।उभौ नेतारौ आतंकवादस्य सर्वेषु रूपेषु अभिव्यक्तिषु च शून्य–सहिष्णुता–नीतिं पुनरुक्तवन्तौ, तथा अस्य वैश्विक–संकटस्य विरुद्धं संयुक्तरूपेण संघर्षं कर्तुं दृढ–प्रतिबद्धतां प्रकटितवन्तौ।
प्रधानमन्त्री नेतन्याहूः प्रधानमन्त्री मोदीं गाजा–शान्ति–योजनायाः क्रियान्वयन–विषये अवगतवान्। अस्मिन् सन्दर्भे प्रधानमन्त्री मोदी क्षेत्रे न्यायसंगत–स्थायी–शान्त्याः प्रयत्नेषु भारतस्य निरन्तर–समर्थनं पुनः पुष्टवान्। उभौ नेतारौ क्षेत्रीय–तथा वैश्विक–विषयेषु अपि विचार–विनिमयं कृतवन्तौ। विद्यमान–क्षेत्रीय–परिस्थितयः, ऊर्जा–सुरक्षा तथा क्षेत्रे निवसमानानां भारतीय–नागरिकाणां सुरक्षा–विषयकं भारतस्य निकट–निरीक्षणम् अपि उल्लिखितम्। भविष्ये अपि परस्पर–सम्पर्के स्थातुं तौ सहमतिं व्यक्तवन्तौ।
अनन्तरं प्रधानमन्त्री नरेन्द्र–मोदी सामाजिक–माध्यम–मञ्चे ‘एक्स’ इत्यत्र लेखं प्रकाशितवान्—“मम मित्रेण प्रधानमन्त्री बेन्जामिन–नेतन्याहू–महाशयेन सह संवादं कृत्वा तं तथा इजरायल–जनतां नववर्षस्य शुभाशंसाः प्रेषिताः। अग्रिम–वर्षे भारत–इजरायल–रणनीतिक–सहभागिताम् अधिकं सुदृढीकर्तुम् उपायानां विषये चर्चां कृतवन्। क्षेत्रीय–स्थितौ विचार–विनिमयं कृतं, आतंकवाद–विरुद्धं सहभागं–संकल्पं च अधिकं दृढं कृतवन्तौ।
हिन्दुस्थान समाचार / अंशु गुप्ता