Enter your Email Address to subscribe to our newsletters

नवदिल्ली, ०७ जनवरीमासः (हि.स.)। प्रधानमन्त्री नरेन्द्र–मोदी देशवासिनः जीवनस्य चतुर्णां महत्त्वपूर्णानां मूल्यानां महत्त्वं प्रतिपादितवान्। सः अवदत् यत् मनुष्यस्य वास्तविकं सौन्दर्यं न वस्त्रैः न च रूपेण प्रकाशते, अपि तु गुणैरेव दीप्तिमन्तं भवति। तथा च परिवारस्य प्रतिष्ठा नाम्ना वा कुलपरम्परया न निर्मीयते, किन्तु उत्तमेन स्वभावेन सम्यगाचरणेन च निर्मीयते।प्रधानमन्त्री अवदत् यत् विद्या तदैव सार्थिका भवति यदा सा सफलतां प्रति नयति, तथा धनं तदैव मूल्यवान् भवति यदा तस्य उपयोगः विवेकपूर्वकम् उत्तरदायित्वेन च क्रियते।प्रधानमन्त्री बुधवासरस्य प्रातःकाले सामाजिक–माध्यम–मञ्चे ‘एक्स’ इत्यत्र संस्कृतस्य एकं सुभाषितं लिखितवान्—
गुणो भूषयते रूपं शीलं भूषयते कुलम्।सिद्धिर्भूषयते विद्यां भोगो भूषयते धनम्॥
अस्य सुभाषितस्य भावार्थं स्पष्टीकुर्वन् सः अवदत् यत् एतानि वचनानि यद्यपि प्राचीनानि सन्ति, तथापि अद्यापि तानि समानरूपेण सत्यानीव आवश्यकानि च सन्ति।प्रधानमन्त्री अपि अवदत् यत् देशस्य प्रगतिः तदैव सम्भवति यदा जनाः केवलं अर्जने प्रदर्शने न आसक्ताः स्युः, अपि तु उत्तम–मानवत्व–निर्माणे, सम्यक्–कर्मणि तथा संसाधनानां सन्तुलित–उपयोगे विश्वासं कुर्यु:। ज्ञानस्य अर्थः केवलं पुस्तकेषु सीमितः न अस्ति, अपि तु तस्य व्यवहारिक–अनुप्रयोगः फलरूपेण परिवर्तनं च अपेक्षितम् अस्ति। तथैव धन–सञ्चयः निन्दनीयः न अस्ति, किन्तु तस्मात् अपि अधिकं महत्त्वपूर्णं भवति यत् तत् कथं व्यय्यते—स्वस्य, समाजस्य तथा प्रकृतेः हिताय वा न वा इति।
हिन्दुस्थान समाचार / अंशु गुप्ता