Enter your Email Address to subscribe to our newsletters

रायपुरम्, 07 जनवरीमासः (हि.स.)। मुख्यमन्त्री-आवास-कार्यालये रायपुरे
जनवरीमासस्य अष्टदिनाङ्के गुरुवासरे जनदर्शनस्य आयोजनं भविष्यति।
अस्मिन् अवसरे मुख्यमन्त्री विष्णुदेवसायः प्रदेशवासिभिः सह प्रत्यक्षसंवादं करिष्यति तथा तेषां समस्याः श्रुत्वा निराकरणं करिष्यति। मुख्यमन्त्री सायेन अधिकरिभ्यः निर्देशाः दत्ताः सन्ति, यत् जनदर्शनकाले प्राप्तस्य प्रत्येकस्य आवेदनस्य शीघ्रं संवेदनशीलं च निराकरणं सुनिश्चितं भवेत्, येन जनानां समस्याः समयबद्धरूपेण समाधानं प्राप्नुयुः।
---------------
हिन्दुस्थान समाचार