Enter your Email Address to subscribe to our newsletters

नवदिल्ली, ०७ जनवरीमास: (हि.स.)। केन्द्रीय–जलशक्ति–मन्त्री सी.आर.पाटिलः स्वच्छ–भारत–मिशन–ग्रामीण–अन्तर्गतं सर्वैः राज्यैः सह संवादं कृत्वा समुदाय–आधारित–मल–कर्दम–प्रबन्धन–(एफएसएम)–नव–नमूनानां मुक्तकण्ठेन प्रशंसां कृतवान्। जलशक्ति–मन्त्रालयस्य पेयजल–एवं–स्वच्छता–विभागेन मङ्गलवासरे आयोजिते अस्मिन् आभासी–संवादे मन्त्री पाटिलः अवदत् यत् केवलं शौचालय–निर्माणं पर्याप्तं नास्ति, अपि तु तस्य सुरक्षित–रीत्या निष्कासनं, वहनं, उपचारं तथा पुनः–उपयोगः अपि अत्यावश्यकः। ओडिशा–प्रदेशस्य खोरधा–जनपदे ट्रान्सजेण्डर–समूहेन सञ्चालितं फीकल–स्लज–ट्रीटमेण्ट–प्लाण्ट् (एफएसटीपी)–प्रयासं सः सर्वाधिकं प्रेरणादायकम् उदाहरणं मन्यते, यतः अस्मात् स्वच्छता–संवर्धनं भवति तथा जनानां कृते रोजगारोऽपि सृज्यते।
अस्मिन् संवादे जलशक्ति–राज्यमन्त्री वी.सोमन्ना, सचिवः अशोक–के.के. मीणा, तथा स्वच्छ–भारत–मिशन–ग्रामीण–स्य मिशन–निदेशिका ऐश्वर्या–सिंह: अपि सहभागं कृतवन्त:। विभिन्नेषु राज्येषु जिलाधिकारिणः, जिला–पञ्चायत–मुख्य–कार्यपालक–अधिकारिणः, पञ्चायत–सदस्याः, स्व–सहायता–समूह–(एसएचजी)–महिलाः तथा सदस्याश्च आभासीरूपेण संवादे संलग्नाः आसन्।
मन्त्रालयेन सूचितं यत् गुजरात–प्रदेशस्य डांग–जनपदे आदिवासी–क्षेत्रेषु ट्विन–पिट–शौचालयानां व्यापकः उपयोगः क्रियते। सिक्किम–प्रदेशस्य मङ्गन–जनपदे सिङ्गल–पिट–शौचालयानां ट्विन–पिट–रूपान्तरणं वेगेन कृतम्, येन एफएसएम–नियमाः पूर्णीकृताः स्युः। मध्यप्रदेशस्य इन्दौर–जनपदे कालिबिल्लौद–ग्राम–पञ्चायते देशस्य प्रथमं ग्रामीण–एफएसटीपी अस्ति, यत्र उपचारित–जले मत्स्य–पालनस्य प्रयोगोऽपि क्रियते तथा सहैव एमआरएफ–केन्द्रम् अपि निर्मितम्। एतेन पञ्चायतानां कृते नूतनं आय–स्रोतः उद्भूतम्।
कर्नाटक–प्रदेशस्य दक्षिण–कन्नड़–जनपदे एसएचजी–सहाय्येन क्लस्टर–एफएसटीपी–नमूना सञ्चाल्यते, यस्यां संरक्षण–व्यवस्थापन–उत्तरदायित्वमपि स्थानीय–समूहाः एव वहन्ति। लद्दाख–प्रदेशस्य लेह–जनपदे तीव्र–शीत–परिस्थितीन् शीतम् उच्चतां च दृष्ट्वा इकोसैन–शौचालयाः निर्मिताः। त्रिपुरा–प्रदेशस्य गोमती–जनपदे मेलानां तथा सार्वजनिक–कार्यक्रमाणां कृते मोबाइल–बायो–टॉयलेट् स्थापिता: सन्ति, येषां सञ्चालनं एसएचजी–समूहैः एव क्रियते, एषा नमूना स्वव्यय–निर्वहणेऽपि सफला अभवत्।
संवाद–काले सहभागिभ्यः स्व–स्थानीय–भाषायाम् एव अभिव्यक्तिं कर्तुं प्रोत्साहनं दत्तम्, येन समुदाय–जनाः निःसंकोचं स्वानुभवान् अवदन्। मन्त्री पाटिलः अवदत् यत् ग्रामेषु एफएसएम–सफलता तदैव सम्भवति यदा पञ्चायतः, स्व–सहायता–समूहाः तथा सामान्य–जनाः संयुक्तरूपेण कार्यं कुर्वन्ति तथा स्थानीय–परिस्थित्यनुसारं प्रौद्योगिकी चेष्यन्ति। कठिन–परिस्थितिषु कृताः एते प्रयोगाः दर्शयन्ति यत् नूतन–समाधान–अन्वेषणे ग्रामाः अपि नगरेभ्य: न्यूनाः न सन्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता