एसआईआरः प्रवासी–श्रमिकेभ्यः तथा बहिर्देशेषु अध्ययनरत–छात्रेभ्यः न्यायप्रक्रियायां शिथिलता
कोलकाता, ०७ जनवरीमासः (हि.स.)। पश्चिम–बङ्गाल–प्रदेशे अग्रिम–विधानसभा–निर्वाचनं दृष्ट्वा प्रवर्तमानस्य मतदाता–सूची–विशेष–गहन–पुनरीक्षणस्य (एसआईआर) अन्तर्गतं भारत–निर्वाचन–आयोगेन प्रवासी–श्रमिकेभ्यः तथा राज्यात् बहिः अध्ययनरत–छात्रेभ्यः शिथिलता प्रदत
निर्वाचन आयाेग


कोलकाता, ०७ जनवरीमासः (हि.स.)। पश्चिम–बङ्गाल–प्रदेशे अग्रिम–विधानसभा–निर्वाचनं दृष्ट्वा प्रवर्तमानस्य मतदाता–सूची–विशेष–गहन–पुनरीक्षणस्य (एसआईआर) अन्तर्गतं भारत–निर्वाचन–आयोगेन प्रवासी–श्रमिकेभ्यः तथा राज्यात् बहिः अध्ययनरत–छात्रेभ्यः शिथिलता प्रदत्ता। आयोगेन स्पष्टं कृतं यत् ये मतदातारः ‘तार्किक–विसङ्गति’ इति वर्गे चिह्निताः सन्ति, तेषां नैयायिकश्रवणे शारीरिक–उपस्थितिः अनिवार्या न भविष्यति।

निर्वाचन–आयोग–सम्बद्ध–सूत्रैः अवगतं यत् ये प्रवासी–श्रमिकाः जीविकोपार्जनार्थम् अन्येषु राज्येषु निवसन्ति, तथा ये छात्राः पश्चिम–बङ्गालतः बहिः अध्ययनं कुर्वन्ति, तेषां परिवार–सदस्याः तेषां प्रतिनिधित्वेन श्रवण–केन्द्रे उपस्थाय आवश्यक–तथ्यान् समर्पयितुं शक्नुवन्ति। एतेषां तथ्यानाम् आधारेण आयोगेन मतदातृ–सम्बद्धाः संशयाः निराक्रियन्ते।

सूत्रैः अपि कथितं यत् पश्चिम–बङ्गालतः बहिः कार्यं कुर्वतां श्रमिकाणां तथा अन्येषु राज्येषु अध्ययनरत–छात्राणां संख्या अत्यधिकाऽस्ति। एतत् एव दृष्ट्वा आयोगेन नियमेषु व्यावहारिकी शिथिलता स्वीकृता, येन वास्तविक–मतदातारः अनावश्यक–क्लेशं न अनुभवेयुः। एतस्मिन्नन्तरे बूथ–स्तर–अधिकारिणः (बीएलओ) यदा मतदातॄणां गृहेषु सूचना–पत्रं दास्यन्ति, तदा ते मतदातारं वा तस्य परिवार–सदस्यान् अपि अवबोधयिष्यन्ति यत् ‘प्रोजेनी–मैपिङ्ग्’ प्रक्रियायां केन कारणेन तेषां नाम ‘तार्किक–विसङ्गति’ रूपेण चिह्नितम्।

निर्वाचन–आयोगेन राज्य–सर्वकार–कर्मचारिभ्यः अपि घोषणा–पत्रम् अपेक्षितम् अस्ति, यत्र ते प्रमाणीकर्तुं बाध्याः भविष्यन्ति यत् ते द्वयोः पृथक्–स्थलयोः मतदाता–सूचिषु पञ्जीकृताः न सन्ति। आयोगस्य उद्देश्यं द्वितीय–मतदाता–पञ्जीकरणस्य सम्भावना पूर्णतया समाप्ता भवेत्। आयोग–सूत्रैः अवगतं यत् ‘अनमैप्ड्’ वर्गे स्थित–मतदातृणां श्रवण–प्रक्रिया प्रायः पूर्णा जाता। राज्ये एतादृशानां मतदातृणां संख्या ३०–लक्षाधिकम् इति कथ्यते। अपरं तु ‘तार्किक–विसङ्गति’ वर्गे चिह्नितानां मतदातृणां संख्या प्रायः ९२–लक्षम् इति अनुमान्यते।

एतेषां ‘तार्किक–विसङ्गति’ प्रकरणानां श्रवणं १३ जनवरीतः आरभ्यते। अन्तिम–मतदाता–सूची तु १४ फरवरी–दिने प्रकाशयिष्यते। अस्य अर्थः अयं यत् आयोगेन एकस्मात् मासात् न्यून–काले सर्वेषाम् एतेषां प्रकरणानां श्रवणप्रक्रिया समापयितव्या। ड्राफ्ट–मतदाता–सूच्याः प्रकाशनानन्तरं शीघ्रमेव भारत–निर्वाचन–आयोगस्य पूर्ण–पीठः कोलकाता–नगरम् आगमिष्यति तथा सम्पूर्ण–स्थितेः समीक्षां करिष्यति। तदनन्तरमेव अस्मिन् वर्षे भविष्यमाणानां महत्त्वपूर्णानां विधानसभा–निर्वाचनानां मतदान–तिथयः घोषिताः भविष्यन्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता