विधानसभा-निर्वाचनात् पूर्वं तमिलनाडुराज्ये अन्नाद्रमुक–पमक–गठबन्धने सहमति:
चेन्नई, ०७ जनवरीमासः (हि.स.)।तमिलनाडु-राज्ये विधानसभाया: निर्वाचनाय अल्पः एव कालः अवशिष्टः अस्ति, अस्मिन् परिप्रेक्ष्ये राजनैतिक-गतिविधयः तीव्रतराः अभवन्। अस्मिन्नेव क्रमे विपक्षी-दलस्य अखिल-भारतीय-अन्ना-द्रविड़-मुनेत्र-कडगम् (अन्नाद्रमुक) इत्यस्य
अंबुमणि रामदास एआईएडीएमके में शामिल हुए।


चेन्नई, ०७ जनवरीमासः (हि.स.)।तमिलनाडु-राज्ये विधानसभाया: निर्वाचनाय अल्पः एव कालः अवशिष्टः अस्ति, अस्मिन् परिप्रेक्ष्ये राजनैतिक-गतिविधयः तीव्रतराः अभवन्। अस्मिन्नेव क्रमे विपक्षी-दलस्य अखिल-भारतीय-अन्ना-द्रविड़-मुनेत्र-कडगम् (अन्नाद्रमुक) इत्यस्य महासचिवः एडप्पाड़ी-के.-पलानीस्वामी बुधवासरे पट्टाली-मक्कल-कच्ची (पमक) दलस्य नेता अन्बुमणि-रामदासेन सह साक्षातृकारं कृतवान्। अस्मिन् साक्षात्कारे अग्रिम-विधानसभा-निर्वाचनविषये महत्त्वपूर्णा चर्चा अभवत्।चेन्नई-नगरे ग्रीनवे-मार्ग-स्थिते पलानीस्वामिनः निवासे सम्पन्नायाम् अस्यां सभायां पूर्व-मन्त्री सी.वी.शण्मुगनः अपि उपस्थितः आसीत्। सभानन्तरं पलानीस्वामी अन्बुमणि-रामदासः च संयुक्तरूपेण पत्रकारान् सम्बोधितवन्तौ।अस्मिन् अवसरे एडप्पाड़ी-पलानीस्वामी अवदत् यत् अन्नाद्रमुक–पमक–गठबन्धनं कार्यकर्तॄणां, नेतॄणां समर्थकानां च इच्छानुसारं निर्मितम् अस्ति। सः एतत् “विजय-गठबन्धनम्” इति निर्दिश्य प्रतिपादितवान् यत् अग्रिम-विधानसभा-निर्वाचने अस्य गठबन्धनस्य २३४-स्थानेषु बहुषु स्थानेषु विजयः भविष्यति, तथा अन्नाद्रमुक स्पष्ट-बहुमतेन पुनः सत्तायाम् आगमिष्यति।सः अवगतवान् यत् अन्नाद्रमुक-नेतृत्वे अस्मिन् गठबन्धने भारतीय-जनता-दलं (भा.ज.पा.) पमक-च सम्मिलिताः सन्ति। त्रीण्यपि दलानि दिनरात्रं परिश्रमं कृत्वा महान्तं विजयम् अवाप्स्यन्तीति तेन उक्तम्। अधिकतरेषु स्थानेषु स्थान-वितरणे सहमतिः सिद्धा अस्ति, अवशिष्ट-स्थानानां घोषणा पश्चात् करिष्यते इति अपि तेन सूचितम्।पमक-नेता अन्बुमणि-रामदासः अवदत् यत् अन्नाद्रमुक-नेतृत्वे गठबन्धने सम्मिलितुं तस्य कृते हर्षस्य विषयः अस्ति। सः विश्वासं व्यक्तवान् यत् एतत् गठबन्धनं विशालं विजयम् अर्जयिष्यति, तथा तमिलनाडुजनपदे अन्नाद्रमुक-नेतृत्वे सर्वकार: स्थास्यति।अन्बुमणि-रामदासः द्रविड़-मुनेत्र-कड़गम् (द्रमुक) सर्वकारं प्रति भ्रष्टाचारस्य, महिलानां विरोधी-नीतिनां, सामाजिक-न्यायस्य च विरोधस्य आरोपान् अकरोत्। सः अवदत् यत् जनताः द्रमुक-सर्वकारेण असन्तुष्टाः सन्ति तथा परिवर्तनम् इच्छन्ति। सम्प्रतिकाले सम्पन्नायां शत-दिनात्मकायां पदयात्रायां ग्रामे-ग्रामे द्रमुक-विरुद्धं जनाक्रोशं दृष्टवान् इति सः कथितवान्।पत्रकारैः स्थान-सङ्ख्यां विषये पृष्टे सत्यपि उभौ नेतारौ स्पष्टम् उत्तरं न दत्तवन्तौ। तथापि राजनैतिक-सूत्राणाम् अनुसारं अन्नाद्रमुक पमक-दलाय प्रायः पञ्चदश-स्थानानि दातुं विचारयति, यदा पमक-दलेन विंशतितः अधिक-स्थानानां याचना कृता अस्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता