Enter your Email Address to subscribe to our newsletters

वॉशिंगटनम्, 07 जनवरीमासः (हि.स.)।
अमेरिकीयाध्यक्षः डोनाल्ड ट्रम्पः हाउस् रिपब्लिकन्-सांसदान् वार्षिक-विश्रान्तिसभां प्रति सम्बोधनं कृत्वा स्वसर्वकारस्य उपलब्धीः सम्यक् प्रशंस्य प्रस्तुतवान् , वेनेजुएलायाः राजधानी कराकस्स्थिते नवीनसैनिकक्रियाकलापं “आश्चर्यजनकं” तथा “रणनीतिकतया उत्कृष्टम्” इति अभिनन्दितवान्। प्रायेण अर्धाधिकघण्टिकायाः भाषणस्य मध्ये ट्रम्पेन विदेशनीतिः, आन्तरिकराजनीतिः, आगामी मध्यावधिचुनावाः, स्वास्थ्यसेवा चादिषु विषयेषु मुक्तया चर्चा कृता।
स्वस्य सम्बोधनस्य आरम्भे ट्रम्प् अवदत्— “यूयं राष्ट्रपतिनिर्वाचनं जयथ, वयं च निश्चयेन अतीव सफलं राष्ट्रपतिशासनकालं वहामः। यत् वयं कुर्मः, तादृशं पूर्वं कदापि न जातम्।” सः इदानीन्तनदिनेषु जातानां “अत्यन्तं सफलानां” घटनानां स्मरणं कृत्वा वेनेजुएलादेशे कृते क्रियाकलापे संकेतं कृतवान्,यस्मिन् पूर्वराष्ट्रपतिः निकोलस् मादुरो, तस्य भार्या सिलिया फ्लोरेस् च गृहीतौ।
ट्रम्प् कराकसे जातान् आक्रमणान् प्रति अवदत्— “एतत् अद्भुतम् आसीत्, अत्युत्तमं चासीत्। चिन्तयत—अस्माकं पक्षतः कोऽपि न मृतः, परपक्षे तु बहवः जनाः निहताः।” सः अभ्यधात् यत् एषः अभियानः “रणनीतिकतया अतीव उत्कृष्टः” आसīt्। मादुरो-नामानं “हिंस्रपुरुषम्” इति निगद्य आरोपितवान् यत् तेन लक्षलक्षजनानां प्राणाः हृताः।
अस्मिन् अवसरे अध्यक्षः कैलिफोर्नियाराज्यस्य सांसदस्य डग् ला-माल्फा इति दिवंगतस्य प्रति शोकं प्रकट्य तम् “अमेरिकीयबालकानां समाजस्य च सत्यरक्षकः” इति स्मृतवान्। स्वभाषणे ट्रम्प् पुनः अमेरिकीय-निर्वाचनव्यवस्थां प्रति प्रश्नानुत्थाप्य 2020तमं निर्वाचनं “कपटयुक्तम्” इति निर्दिष्टवान्, यद्यपि एते दावाः पूर्वमेव निरस्ताः।
तैः डेमोक्रैट्-दले उपरि आरोपितं यत् ते यदि प्रतिनिधिसभायां बहुमतं प्राप्नुयुः तर्हि तं महाभियोगस्य साम्ना करणीयः स्यात्। ट्रम्पेन रिपब्लिकन्-सांसदां प्रति आगामी मध्यावधिचुनावं जयितुं आह्वानं कृतं, अवदच्च— “यदि वयं मध्यावधिं न जयामः, तर्हि ते काचित् कारणं अन्विष्य मयि महाभियोगप्रयत्नं करिष्यन्ति।” स्वास्थ्यसेवानीतौ च दलं प्रति आक्रामकं भावं ग्राहयितुं प्रदिष्टवान्, उक्तवान् च यत् स्वास्थ्यव्ययेन प्राप्तं धनं प्रत्यक्षं जनान् प्रति गन्तव्यम्, न तु बीमासंस्थासु।
अन्ते ट्रम्प् संकेतं दत्तवान् यत् मादुरो-ग्रहणस्य अनन्तरं सः शीघ्रमेव अमेरिकीय-तैल-उद्योगस्य अधिकारिभिः सह भेंटं करिष्यति। अवदच्च यत् वर्धित-तैल-उत्पादनात् मूल्यानि अधःपतिष्यन्ति, अमेरिका च ऊर्जा-कषेत्रेऽधिकं दृढा भविष्यति।
--------------------
हिन्दुस्थान समाचार