उत्तरकाश्यां पञ्चदश-दिवसीयः टूर-मैनेजर-प्रशिक्षण-कार्यक्रमः सम्पन्नः
उत्तरकाशी, ०७ जनवरीमासः (हि.स.)। उत्तरकाशी-नगरे उत्तराखण्ड-पर्यटन-विभागस्य तत्वावधाने आयोजितः पञ्चदश-दिवसीयः टूर-मैनेजर-प्रशिक्षण-कार्यक्रमः बुधवासरे विधिवत् समापनम् अभवत्।अयं कार्यक्रमः पर्यटन-सचिवस्य धीराज-सिंह-गर्ब्यालस्य दिशानिर्देशेषु टूरिज़्म
उत्तरकाशी :  पन्द्रह दिवसीय टूर मैनेजर प्रशिक्षण का समापन


उत्तरकाशी, ०७ जनवरीमासः (हि.स.)। उत्तरकाशी-नगरे उत्तराखण्ड-पर्यटन-विभागस्य तत्वावधाने आयोजितः पञ्चदश-दिवसीयः टूर-मैनेजर-प्रशिक्षण-कार्यक्रमः बुधवासरे विधिवत् समापनम् अभवत्।अयं कार्यक्रमः पर्यटन-सचिवस्य धीराज-सिंह-गर्ब्यालस्य दिशानिर्देशेषु टूरिज़्म-हॉस्पिटैलिटी-स्किल-काउन्सिल (टीएचएससी) इत्यस्य सहयोगेन विद्या-सोसाइटी-संस्थया आयोजितः आसीत्।समापन-समारोहस्य मुख्यातिथिरूपेण नगर-पालिका-अध्यक्षः भूपेन्द्र-चौहानः उपस्थितः आसीत्। सः प्रशिक्षणार्थिभ्यः प्रमाण-पत्राणि वितरन् अवदत् यत् पर्यटन-आधारितं कौशल-प्रशिक्षणं स्थानीय-यूनां कृते रोजगारस्य तथा स्वरोजगारस्य च सशक्तं माध्यमं भवति, यत् प्रदेशस्य आर्थिक-सुदृढतायां महत्त्वपूर्णं योगदानं ददाति।पर्यटन-विभागस्य अतिरिक्त-निदेशिका श्रीमती पूनम-चन्दः आभासी-माध्यमेन प्रतिभागिनः सम्बोधितवती। सा प्रशिक्षण-समाप्त्याः उपलक्ष्ये सर्वान् अभिनन्द्य तेषाम् उज्ज्वल-भविष्याय शुभाशंसाः प्रदत्तवती। सा यून: प्राप्त-कौशलस्य व्यवहारिक-उपयोगं कृत्वा पर्यटन-क्षेत्रे नूतन-सम्भावनाः सर्जितुम् आह्वानं कृतवती।कार्यक्रमे प्रशिक्षण-प्रदायकः नरेश-रावतः, विद्या-सोसाइटी-प्रतिनिधिः विजय-तिवारी, होटल-असोसिएशन-अध्यक्षः शैलेन्द्र-सिंह-मटूडा, ट्रेकिङ्ग-असोसिएशन-सचिवः मनोज-रावतः तथा सभासदः महावीर-चौहानेन सह अनेके गणमान्याः उपस्थिताः आसन्। कार्यक्रमस्य संचालनं विद्या-सोसाइटी-संस्थायाः राकेश-महारा-इत्यनेश कुशलतया कृतम्।समापनावसरे प्रतिभागिनः प्रशिक्षण-काले प्राप्तं ज्ञानं, व्यवहारिकम् अनुभवम् तथा मार्गदर्शनं च अत्यन्तम् उपयोगी इति निरूप्य अवदन् यत् एषः प्रशिक्षण-कार्यक्रमः तेषां भविष्य-निर्माणे मील-पत्थरवत् सिद्धः भविष्यति। तैः उत्तराखण्ड-पर्यटन-विभागस्य सफल-आयोजनाय आभारः अपि व्यक्तः।

हिन्दुस्थान समाचार / अंशु गुप्ता