Enter your Email Address to subscribe to our newsletters

कोलकाता, ०७ जनवरीमासः (हि.स.)। पश्चिम–बङ्गाल–प्रदेशे अग्रिम–विधानसभा–निर्वाचनात् पूर्वं भारतीय–जनता–दलं (भा.ज.पा.) संघटनं सुदृढीकर्तुं महत्त्वपूर्णं पादं अग्रे नीतवान्। दलद्वारा बुधवासरे नव–राज्य–कार्यकारिण्याः औपचारिकी घोषणा कृता। एषा घोषणा आगामी–निर्वाचन–रणनीतेः दृष्ट्या अत्यन्तं महत्त्वपूर्णा इति मन्यते। दल–नेतृत्वस्य मतम् अस्ति यत् सुदृढ–संघटनस्य बलेन कार्यकर्तॄन् एकत्रीकृत्य निर्वाचन–रणभूमौ उत्तमं प्रदर्शनं कर्तुं शक्यते।
दल–द्वारा निर्गता अधिसूचना अनुसारं प्रदेशाध्यक्षः शमिक–भट्टाचार्यः स्वीय–दलस्य अन्तर्गतं सञ्जय–सिंहः, राजू–बनर्जी, देवश्री–चौधुरी, अग्निमित्रा–पॉल, दीपक–वर्मन्, जगन्नाथ–चट्टोपाध्यायः, मनोज–टिग्गा, निशिथ–प्रामाणिकः, तापस–रायः, अमिताव–रायः, तनुजा–चक्रवर्ती तथा प्रबल–राहा इत्येतेषां प्रदेश–उपाध्यक्षत्वे नियुक्तिं कृतवान्।
संघटनस्य संचालनम् अधिकं सुदृढं कर्तुं ज्योतिर्मय–सिंह–महतो, लॉकेट–चटर्जी, सौमित्र–खानः, बापी–गोस्वामी तथा शशि–अग्निहोत्री इत्येते प्रदेश–महासचिवत्वेन नियुक्ताः सन्ति। तथैव संघटनात्मक–राजनीतिक–क्रियाकलापानां भूमि–स्तरे अधिकं वेगं दातुं बहवः सचिवाः अपि नियुक्ताः। एतेषु शंकर–घोषः, दीपांजन–गुहा, सोनाली–मुर्मू, मनोज–पाण्डेयः, अमलन–भादुड़ी, महादेव–सरकारः, सखारव–सरकारः, सिन्टू–सेनापति, सरबरी–मुखर्जी, मोहन–शर्मा, बिवा–मजूमदार: तथा सञ्जय–वर्मा इत्येतानि नामानि अन्तर्भवन्ति।
दलस्य आर्थिक–प्रशासनिक–व्यवस्थायाः दायित्वं वोढुम् आशीष–बापटः कोषाध्यक्षत्वेन नियुक्तः। प्रवीन–अग्रवालः तथा विद्यासागरः इत्येतौ संयुक्त–कोषाध्यक्षत्वेन नियुक्तौ। संघटन–कार्यालयस्य कार्यभाराय प्रणय–रायः कार्यालय–सचिवः, तथा प्रत्युष–मण्डलः संयुक्त–कार्यालय–सचिवः नियुक्तौ स्तः।
भा.ज.पा.–सूत्रैः अवगतं यत् नव–कार्यकारिण्याम् अनुभवस्य तथा युवा–नेतृत्वस्य समुचितः समन्वयः कृतः अस्ति। तदतिरिक्तं राष्ट्रीय–स्वयंसेवक–संघस्य (आर.एस.एस.) पृष्ठभूमितः आगतानां व्यक्तिनाम् अपि समावेशः कृतः। दलस्य मुख्यं लक्ष्यं बूथ–स्तरपर्यन्तं संघटनं सुदृढीकरणम्, कार्यकर्तॄषु नव–ऊर्जा–सञ्चारः, तथा निर्वाचनात् पूर्वं जनसम्पर्कं तीव्रकरणम् अस्ति। अग्रिम–दिनेषु नव–कार्यकारिण्या निर्वाचन–सज्जाया: विषये अनेकान् महत्त्वपूर्णान् निर्णयान् स्वीकरिष्यति इति मन्यते।
हिन्दुस्थान समाचार / ANSHU GUPTA