Enter your Email Address to subscribe to our newsletters

नवदिल्ली, ०८ जनवरीमासः (हि.स.)। दिल्ली–विधानसभायाः अध्यक्षः विजेन्द्र–गुप्त–महाशयः शीतकालीन–सत्रस्य चतुर्थे दिने गुरुवासरे सत्तापक्ष–विपक्षयोः उभययोः याचनाया: अनन्तरं नेता–प्रतिपक्ष–आतिशी–महाशयायाः चलचित्र–दृश्यं फॉरेन्सिक–परीक्षणाय प्रेषयितुम् आदेशं दत्तवान्।सः निरीक्षण–प्रतिवेदनं पञ्चदश–दिनान्तरं समर्पयितुं निर्देशं दत्तवान्।कोलाहल: न शाम्यति इति दृष्ट्वा अध्यक्षेण विधानसभायाः कार्यवाही तृतीयवारं अपराह्णे ०१–वादनपर्यन्तं स्थगिता कृता।अद्य पूर्वाह्णे ११–वादने विधानसभायाः कार्यवाही आरब्धा। तदा भारतीय–जनता–दलस्य (भा.ज.पा.) सदस्यैः नेता–प्रतिपक्ष–आतिशी–महाशयायाः गुरु–तेगबहादुर–सम्बद्धां कथित–टिप्पणीं प्रति कोलाहल: आरब्धः।तस्य परिणामस्वरूपम् अध्यक्षेण कार्यवाही अर्ध–घण्टापर्यन्तं स्थगिता।पुनः कार्यवाही आरब्धा चेदपि सत्तापक्ष–सदस्यानां कोलाहलं निरन्तरं प्रवर्तते स्म।एतस्मिन् काले कोलाहल–मध्ये मन्त्रिपरिषद्–सदस्यः कपिल–मिश्र–महाशयः आतिशी–महाशयायाः विषये किञ्चित् टिप्पणीं कृतवान्।तदनन्तरं आम–आदमी–दलस्य सदस्यैः अपि तीव्रः कोलाहल: आरब्धः।एतत् दृष्ट्वा अध्यक्षेण पुनः कार्यवाही अर्ध–घण्टापर्यन्तं स्थगिता कृता।तृतीयवारं कार्यवाही आरब्धा, किन्तु कोलाहल न शमितः। अतः अध्यक्षेण कार्यवाही तृतीयवारं अर्ध–घण्टापर्यन्तं स्थगिता कृता।
हिन्दुस्थान समाचार / अंशु गुप्ता