Enter your Email Address to subscribe to our newsletters

औरैया, 08 जनवरीमासः (हि. स.)।
उत्तर प्रदेशराज्यस्य औरैयाजनपदस्य दिबियापुरनिवासिनी तथा राष्ट्रिययुवापुरस्कारसमलंकृता नेहा कुशवाहा स्वस्य सततपर्यावरणसंरक्षणाभियानेन समाजं निरन्तरं प्रेरयति। अद्यतनकाले यदा पर्यावरणसंकटं वैश्विकचिन्ताविषयत्वेन परिगणितं भवति तदा नेहायाः सदृशानां युवानां प्रयासाः जनजागरणस्य सशक्तं माध्यमं भवन्ति।
सा नेहा कुशवाहा वर्षे २०१५ तमे पौधारोपणाभियानस्य आरम्भं कृत्वा प्रत्येकस्मिन् लघु वा महति अवसरें पादपदानरूपां सकारात्मकां परम्परां प्रवर्तितवती। तस्याः मतं यत् पर्यावरणरक्षा जनानां वैयक्तिकप्रयासैरेव सम्भवति।
अद्यावधि ३५४६ पौधानां दानं रोपणं च कृत्वा ‘वॉटर हीरो’ इति विख्यात्या नेहा कुशवाहा अपरं प्रशंसनीयं दृष्टान्तं प्रदर्शितवती। सा स्वगृहे अनुपयोगिनि घटे संवर्धितं दाडिमपौधं घटसहितं ढरकननिवासिने सनी शाक्याय दत्तवती। एषा पहल न केवलं पर्यावरणसंरक्षणस्य संदेशं ददाति अपि तु पुनःउपयोगस्य तथा संसाधनसंरक्षणस्यापि प्रभावीमुपदेशं वहति।
सनी शाक्यः तं पादपं सहर्षं स्वीकृत्य तस्य नियमितपरिचर्यां कर्तुं तथा तं फलदारवृक्षरूपेण विकसितुं संकल्पं कृतवान्। नेहा कुशवाहायाः एषः प्रयत्नो न केवलं हरितिमावृद्ध्यै महत्त्वपूर्णा अस्ति अपि तु समाजस्य प्रत्येकं जनं स्वस्तरे पर्यावरणहिताय किञ्चित्कर्तुं प्रेरयति।
---------------
हिन्दुस्थान समाचार