केंद्रीय शिक्षा मंत्री वित्त मंत्रिणा सह मेलनं,2026–27 तमे राजस्वे शिक्षा क्षेत्रमाधृत्य विश्वसितम्
नव दिल्ली, 08 जनवरीमासः (हि.स.)।केन्द्रीयशिक्षामन्त्री धर्मेन्द्रप्रधानः गुरुवासरे वित्तमन्त्रिणा निर्मला सीतारमणया सह उपवेशनं कृत्वा शिक्षाक्षेत्रस्य आकाङ्क्षाः ताम् अवगतवान्। अस्मिन् उपवेशने शैक्षिकव्यवस्थायाः—विद्यालयीयशिक्षायाः उच्चशिक्षायाश्च—
केंद्रीय शिक्षा मंत्री धर्मेंद्र प्रधान गुरुवार को वित्त मंत्री निर्मला सीतारमण से मुलाकात के दौरान


नव दिल्ली, 08 जनवरीमासः (हि.स.)।केन्द्रीयशिक्षामन्त्री धर्मेन्द्रप्रधानः गुरुवासरे वित्तमन्त्रिणा निर्मला सीतारमणया सह उपवेशनं कृत्वा शिक्षाक्षेत्रस्य आकाङ्क्षाः ताम् अवगतवान्। अस्मिन् उपवेशने शैक्षिकव्यवस्थायाः—विद्यालयीयशिक्षायाः उच्चशिक्षायाश्च— रूपान्तरणसम्बद्धेषु विविधेषु विचारप्रस्तावेषु विस्तरेण चर्चा अभवत्।

सामाजिकमाध्यमेषु प्रकाशितेन सन्देशेन धर्मेन्द्रप्रधानः अवगतवान् यत् उपवेशने शिक्षा, अनुसन्धानं, नवाचारः कौशलविकासश्च सुदृढीकरणसम्बद्धेषु विषयेषु विचारविमर्शः कृतः। तेन विश्वासः व्यक्तः यत् प्रधानमन्त्री नरेन्द्रमोदीमहोदयस्य नेतृत्वे प्रवर्तमानायाः शासनपरम्परायाः अनुरूपं वित्तवर्षे २०२६–२७ इत्यस्मिन् राजस्वे शिक्षा-शोध-नवाचार-कौशलविकासक्षेत्रेषु अधिकाः महान्तः साहसिकाश्च निवेशाः दृश्यन्ते।

केन्द्रीयमन्त्रिणा उक्तं यत् एते निवेशाः जीविकाधारितस्य विकासस्य वेगवर्धने सहायकाः भविष्यन्ति तथा ‘विकसितभारत’ इति लक्ष्यस्य साकारकरणाय महत्त्वपूर्णां भूमिकां निर्वक्ष्यन्ति।

---------------

हिन्दुस्थान समाचार