‘मनरेगा बचाओ संग्रामः’ इत्यभियानं 10 जनवरीतः, प्रतिकेंद्रं ‘मनरेगा योद्धा’ भविष्यति नियुक्तः
जयपुरम्, 08 जनवरीमासः (हि.स.)। ग्रामीणभारते दरिद्रजनानां कर्माधिकारस्य संरक्षणार्थं कांग्रेसदलेन आगामिनः १० जनवरीतः प्रदेशव्यापी “मनरेगा बचाओ संग्राम अभियानम्” आरभ्यते। अस्य अभियानस्य पूर्वसज्जाविषये प्रदेशकांग्रेससमितेः अध्यक्षस्य गोविन्दसिंहडोट
प्रदेश कांग्रेस की विस्तारित कार्यकारिणी की बैठक


जयपुरम्, 08 जनवरीमासः (हि.स.)।

ग्रामीणभारते दरिद्रजनानां कर्माधिकारस्य संरक्षणार्थं कांग्रेसदलेन आगामिनः १० जनवरीतः प्रदेशव्यापी “मनरेगा बचाओ संग्राम अभियानम्” आरभ्यते। अस्य अभियानस्य पूर्वसज्जाविषये प्रदेशकांग्रेससमितेः अध्यक्षस्य गोविन्दसिंहडोटासरस्य अध्यक्षतायां प्रदेशकांग्रेसस्य विस्तीर्णकार्यकारिण्याः उपवेशनं गुरुवासरे हरीशचन्द्रतोतूका सभागारे आयोजितः अभवत्।

अस्यां संगोष्ठ्यां नेताप्रतिपक्षः टीकारामजूली, एआईसीसी सचिवः सह राजस्थानस्य सहप्रभारी रित्विकमकवाना, मध्यप्रदेशप्रभारी हरीशचौधरी, एआईसीसी सचिवः धीरजगुर्जरः, दानिशअब्रारः, पूर्वप्रदेशाध्यक्षः डॉ. सी.पी. जोशी, डॉ. बी.डी. कल्ला, डॉ. चन्द्रभानः तथा कांग्रेससांसदाः, विधायकाः, विधायकप्रत्याशिनः, जिलाध्यक्षाः, प्रदेशपदाधिकारिणः, अग्रिमसंगठनानां प्रकोष्ठानां च अध्यक्षाः उपस्थिताः आसन्।

डोटासरा अवदत् यत् १० जनवरीतः ६ फरवरीपर्यन्तं प्रदेशस्य सर्वेषु जिल्लासु, विकासखंडस्तरेषु, मण्डलस्तरेषु च विविधकार्यक्रमाः आयोज्यन्ते। तेन सर्वेभ्यः पदाधिकारेभ्यः जनप्रतिनिधिभ्यश्च अभियानस्य सफलान्वयनार्थं निर्देशाः दत्ताः।

डोटासरा अवदत् यत् मनरेगा योजनां दुर्बलां कृत्वा समाप्तुं च भारतीयजनतापक्षस्य केन्द्रीयसर्वकारो ग्रामीणदरिद्रश्रमिकाणाम् आजीविकायां प्रत्यक्षं प्रहारं कृतवती अस्ति। सः अवदत् यत् कांग्रेससंसदीयदलस्य नेतृया सोनियागान्धिना तथा पूर्वप्रधानमन्त्रीणा डॉ. मनमोहनसिंहेन मनरेगा अधिनियमः निर्माय दरिद्रजनानां स्वाभिमानसहितं जीवनाधिकारः प्रदत्तः आसीत्।

तेन आरोपः कृतः यत् उद्योगपतीनां प्रभावेन भाजपा सरकार मनरेगा योजनायाः समापनकार्ये प्रवृत्ता, येन दरिद्रश्रमिकाणां कर्माधिकारः अपहृतः। मनरेगायाः माध्यमेन ग्रामीणार्थव्यवस्था सुदृढा अभवत् तथा श्रमिकाणां पलायनं निरुद्धम् आसीत्।

डोटासरः अवदत् यत् कांग्रेसकार्यकर्तारः गृहं गृहं गत्वा मनरेगायाः लाभानां विषये जनान् अवगतं करिष्यन्ति तथा केन्द्रसरकारस्य निर्णयैः दरिद्रजनानां यत् हानिः भवति तां पत्रकवितरणेन गोष्ठीभिः च जनसामान्यपर्यन्तं प्रापयिष्यन्ति। तेन आरोपः कृतः यत् अधुना कर्मयाचनया न, अपि तु केन्द्रीयसरकारस्य इच्छानुसारं निर्दिष्टेषु स्थानेषु एव कार्यं दीयते।

तेन निर्देशाः दत्ताः यत् सर्वे जिलाध्यक्षाः विधानसभा समन्वयकाश्च स्वस्वक्षेत्रेषु गत्वा कार्यक्रमाणां निरीक्षणं कुर्वन्तु तथा प्रतिदिनस्य विवरणं कांग्रेस वॉर रूम् प्रति प्रेषयन्तु। अभियानकाले विधायकानां सांसदानां च सहभागिता अनिवार्यतया सुनिश्चितीक्रियताम् इति अपि तेन निर्देशितम्।

डोटासरा प्रस्तावं कृतवान् यत् प्रदेशस्य प्रत्येकस्मिन् बूथे मनरेगासम्बद्धः कांग्रेसविचारधारायाः समर्थकः जनः “मनरेगा योद्धा” इति नियुक्तः भविष्यति। साथै सर्वेभ्यः जनप्रतिनिधिभ्यः स्वस्वक्षेत्रेषु पदयात्रानिर्गमनाय आह्वानं कृतम्।

अस्यां संगोष्ठ्यां नेता प्रतिपक्षः टीकारामजूली, पूर्वप्रदेशाध्यक्षः डॉ. सी.पी. जोशी, हरीशचौधरी, रित्विकमकवाना, धीरजगुर्जरः, दानिशअब्रारः, डॉ. बी.डी. कल्ला, डॉ. चन्द्रभानः च स्वस्ववक्तव्यैः सभां सम्बोधितवन्तः।

कांग्रेसनेतारः एकस्वरेण अवदन् यत् दलं दरिद्रजनानां, मजूराणां, ग्रामीणभारतस्य च अधिकाराणां संरक्षणार्थं दृढतया संघर्षं निरन्तरं करिष्यति।

---------------

हिन्दुस्थान समाचार