Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 08 जनवरीमासः(हि.स.)।
भारतीयशास्त्रीयसंगीतनृत्ययोः समृद्धपरम्परायै समर्पितः स्वामिहरिदासतानसेनसंगीतनृत्यमहोत्सवः २०२६ इति कार्यक्रमः अत्र बाराखम्बा-मार्गस्थिते मॉडर्न्-विद्यालयस्य शङ्करलाल-सभागृहे ९ तः ११ जनवरीपर्यन्तं आयोजितुं निश्चितः अस्ति। अस्य त्रिदिवसीयस्य महोत्सवस्य अन्तर्गतं प्रतिदिनं सायं ६ वादनतः प्रस्तुतयः आरभ्यन्ते।
अयं महोत्सवः पद्मभूषण-प्राप्ताभ्यां डॉ. उमा शर्मा तथा डॉ. विनय भारत राम इत्येतयोः मार्गदर्शनेन आयोजितः भविष्यति। अस्मिन् अवसरॆ भारतीयशास्त्रीयकलायाः अनेकाः दिग्गजाः कलाकाराः स्वस्वकलाप्रदर्शनं करिष्यन्ति।
डॉ. शर्मणा उक्तम् “अद्यतनायां युवापीढ्यां पाश्चात्य-पॉप्-संगीतयोः आकर्षणं स्यात्, तथापि भारतीयशास्त्रीयकलायाः अमूल्यां विरासतां संरक्षितुं अग्रे च नेतुं अस्माकं दायित्वम् अस्ति। अयं महोत्सवः आगामिन्या पीढ्या सह स्वसांस्कृतिकमूलैः संयोजनाय एकः प्रयासः अस्ति।”
अस्मिन् वर्षे महोत्सवः भारतीयशास्त्रीयकलायाः दिग्गजानां अनुपमाभिः प्रस्तुतिभिः अलङ्कृतः भविष्यति। बांसुरीवादनसम्राट् पं. हरिप्रसाद चौरसिया, खयालगायनस्य महान् स्वर-साधिकाः बेगम परवीन सुल्ताना, स्मिता अश्विनी भिड़े देशपांडे, पं. उल्हास कशालकर, सितारवादने उस्ताद् शुजात् ख़ान, मोहनवीणायाः प्रवर्तकौ पं. विश्वमोहन भट्टः पं. सलील भट्टः च (राजस्थानस्य मंगणियारकलाकारैः सह), कथकनृत्ये डॉ. उमा शर्मा स्वशिष्यैः सह, सरोदवादने उस्ताद् अमान अली बंगश, सन्तूरवादने च पं. राहुल शिवकुमार शर्मा इत्येतैः कलाकारैः विशिष्टाः प्रस्तुतयः दास्यन्ते।
---------------
हिन्दुस्थान समाचार