Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 08 जनवरीमासः (हि.स.)।
निर्वाचनप्रबन्धननिकायानां अन्ताराष्ट्रियसम्मेलनात् पूर्वं निर्वाचनआयोगेन देशव्यापिनां निर्वाचनाधिकारिणां सह एकं सम्मेलनम् आयोजितम्। आगामि २१ तः २३ जनवरीपर्यन्तं राजधानी-दिल्ल्यां भारत-अन्तरराष्ट्रीय-लोकतन्त्र-निर्वाचनप्रबन्धनसम्मेलनं आयोजितुं निश्चितम् अस्ति।
गुरुवासरे निर्वाचनआयोगेन भारतीय-अन्ताराष्ट्रिय-लोकतन्त्र-निर्वाचनप्रबन्धन-संस्थाने (आईआईआईडीईएम) देशस्य सर्वेषां मुख्यनिर्वाचनाधिकारिणां सम्मेलनम् आयोजितम्। अस्मिन् सम्मेलने मुख्यनिर्वाचनायुक्तः ज्ञानेश कुमारः निर्वाचनायुक्ताभ्यां डॉ. सुखबीर सिंह सन्धूना डॉ. विवेक जोशीना च सह सर्वान् निर्वाचनाधिकारिणः सम्मेलनस्य विशेषताः सूक्ष्मताः तथा तेषां विशिष्टाः भूमिकाः सम्यक् अवगमयामास।
निर्वाचनआयोगेन अवगतं कृतं यत् अस्मिन् सम्मेलने निर्वाचनाधिकारिभिः षट्त्रिंशत् विषयगतसमूहेषु विचारविमर्शः कृतः, येषां नेतृत्वं आईआईसीडीईएम २०२६ इत्यस्मिन् सम्बन्धितमुख्यनिर्वाचनाधिकारिणः करिष्यन्ति। एते विषयाः निर्वाचनप्रबन्धनस्य सर्वान् आयामान् आवृण्वन्ति। विविधदेशानां निर्वाचनप्रबन्धननिकायानां अनुभवेषु आधारितं समृद्धं ज्ञानकोशं निर्मातुं एषां विषयाणां उद्देश्यं वर्तते।
आईआईसीडीईएम २०२६ निर्वाचनप्रबन्धन-लोकतन्त्रक्षेत्रे भारतदेशेन आयोजितं स्वप्रकारे सर्वातिशयम् विशालं वैश्विकं सम्मेलनं भविष्यति। अस्मिन् सम्मेलने प्रायः शतं अन्ताराष्ट्रियप्रतिनिधयः भागं ग्रहिष्यन्ति, ये विश्वस्य विभिन्ननिर्वाचनप्रबन्धननिकायानां अन्तरराष्ट्रीयसङ्गठनानां भारतस्थितविदेशीमिशनानां तथा निर्वाचनक्षेत्रस्य शैक्षणिकव्यावहारिकविशेषज्ञानां प्रतिनिधित्वं करिष्यन्ति।
अस्मिन् सम्मेलने उद्घाटनसत्रं, निर्वाचनप्रबन्धननिकायनेतॄणां पूर्णसत्रं, कार्यसमूहसम्मेलनानि तथा ईसीआईनेट् इत्यस्य शुभारम्भः इत्यादयः महत्त्वपूर्णाः कार्यक्रमाः भविष्यन्ति। अपि च वैश्विकनिर्वाचनविषयाः, अन्ताराष्ट्रियनिर्वाचनमानकाः, निर्वाचनप्रक्रियासु श्रेष्ठप्रथाः नवाचाराश्च इत्यादिविषयेषु केन्द्रितानि विषयगतसत्राणि अपि आयोजितानि भविष्यन्ति।
उल्लेखनीयं यत् आईआईसीडीईएम २०२६ इत्यस्मिन् चत्वारिंशतः अधिकाः द्विपक्षीयमेलनानि तथा षट्त्रिंशत् ब्रेकआउट्-सत्राणि निश्चितानि सन्ति। अस्मिन् सम्मेलने चत्वारि आईआईटी, षट् आईआईएम, द्वादश एनएलयू, आईआईएमसी इत्यादयः प्रमुखाः शैक्षणिकसंस्थाः सहभागित्वं करिष्यन्ति। राज्येषु केन्द्रशासितप्रदेशेषु च स्थिताः मुख्यनिर्वाचनाधिकारिणः तथा राष्ट्रियाः अन्ताराष्ट्रियाश्च शैक्षणिकविशेषज्ञाः विचारविमर्शे भागं ग्रहिष्यन्ति।
---------------
हिन्दुस्थान समाचार