नेपाले निर्वाचनम् आधृत्य भारत-नेपालयोः अधिकरिणामुपवेशनम्
- द्वयोर्देशयोः सीमायां विशेषेण निरीक्षणं प्रति बलम् लखीमपुर खीरी, 08 जनवरीमासः (हि.स.)। नेपालदेशे आगामिनः हाउस् ऑफ् रिप्रेजेन्टेटिव्स् २०२६ इति निर्वाचनस्य सुरक्षितं शान्तिपूर्णं निष्पक्षं च आयोजनं कर्तुं गुरुवासरे भारत–नेपाल–समन्वयसमितेः उपवेश
बैठक में मौजूद भारतीय व नेपाली अधिकारी


खीरी डीएम दुर्गा शक्ति नागपाल को सम्मानित करते कैलाली जिलाधिकारी


भारत और नेपाल के अधिकारी गण


- द्वयोर्देशयोः सीमायां विशेषेण निरीक्षणं प्रति बलम्

लखीमपुर खीरी, 08 जनवरीमासः (हि.स.)।

नेपालदेशे आगामिनः हाउस् ऑफ् रिप्रेजेन्टेटिव्स् २०२६ इति निर्वाचनस्य सुरक्षितं शान्तिपूर्णं निष्पक्षं च आयोजनं कर्तुं गुरुवासरे भारत–नेपाल–समन्वयसमितेः उपवेशनम् नेपालदेशे सौहार्दपूर्णे वातावरणे आयोजिता। अस्यां महत्त्वपूर्णायां उपवेशने द्वयोः देशयोः मध्ये निर्वाचनकालीनसूचनाविनिमयः परस्परसहयोगश्च सुनिश्चितः कर्तव्यः इति सहमतिर्भवितवती।

अस्यां उपवेशने भारततः लखीमपुरखीरी-जनपदस्य वरिष्ठाः अधिकारिणः, नेपालतः कैलाली-कञ्चनपुर-अञ्चलयोः वरिष्ठाः अधिकारिणश्च सहभागी आसन्। अधिकारिणः विश्वासं व्यक्तवन्तः यत् निर्वाचनसमये पूर्णः सहयोगः संयुक्तसुरक्षोपायाश्च कार्यान्विताः भविष्यन्ति।

उपवेशने उभयदेशीयैः अधिकारिभिः परस्परपरिचयः कृतः। ततः निर्वाचनं दृष्ट्वा सीमायां सतर्कतावर्धनं अपराधिनियन्त्रणं च सहितं विविधविषयेषु विचारविमर्शः कृतः। सीमायां विशेषनिगराणी, मादकद्रव्यतस्करीनिरोधः, उभयदेशसीमासु अपराधिणां धरपकडः इत्यादिषु विषयेषु चर्चां कृत्वा कार्ययोजना अपि निर्मिता।

नेपालदेशे कैलाली-मुख्यजिलाधिकारी हीरालाल रेग्मी तथा कञ्चनपुर-मुख्यजिलाधिकारी मदन कोइराला अवदताम् यत् यथाधिकः सहयोगः लभ्यते तथाधिकं निर्वाचनस्य आयोजनं सुकरं भवति। उभयदेशयोः सम्बन्धाः पूर्वतः अपि उत्तमाः आसन्, भविष्येऽपि अधिकं सुदृढाः भविष्यन्ति। भारत–नेपालयोः सम्बन्धाः ऐतिहासिकैः सांस्कृतिकैः पारिवारिकैश्च बन्धनैः सम्बद्धाः सन्ति।

भारततः लखीमपुरखीरी-जनपदस्य जिलाधिकारी दुर्गा शक्ति नागपाल नेपालाधिकारिणः स्वागतं कृत्वा अवदत् यत् भारत–नेपालयोः सम्बन्धः केवलं सीमासु न सीमितः, अपि तु ऐतिहासिक-सांस्कृतिक-पारिवारिकसम्बन्धैः दृढः अस्ति। तया एषः सम्बन्धः “रोटिका–पुत्रिका–सम्बन्धः” इति निर्दिष्टः तथा उभयदेशयोः अटूटबन्धनं प्रतिपादितम्।

अस्याः उपवेशनस्य मुख्योद्देश्यः निर्वाचनसमये शान्तिः सुरक्षा प्रशासकीयसमन्वयश्च सुनिश्चितः कर्तुम् आसीत्। अधिकारिणः विश्वासं व्यक्तवन्तः यत् जिलाप्रशासनं पुलिस्-दलम् एस्-एस्-बी च नेपालाधिकारिभ्यः सर्वसम्भवं सहयोगं प्रदास्यन्ति। अनेन संवादेन सीमासुरक्षा अपराधनियन्त्रणं च अधिकं सुदृढं भविष्यति, सीमावर्तीजनतायाः कृते सुरक्षितं सहयोगपूर्णं च प्रशासनिकव्यवस्थां प्राप्स्यते इति अपि उक्तम्।

अपरजिलाधिकारी नरेंद्रबहादुरसिंहः अवदत् यत् संशयास्पदक्रियासु सतर्कदृष्टिः, वास्तविककाले सूचनाविनिमयः, आपत्कालीनसेवानां निर्बाधगमनागमनं च प्राथमिकताः भविष्यन्ति। अपरपुलिसअधीक्षकः पवन गौतमः अवदत् यत् भारततः निरन्तरं गश्तिकार्यम् अनुष्ठीयते, नेपालतः प्राप्तासु सूचनासु शीघ्रं प्रत्युत्तरं दास्यामः।

अस्यां उपवेशने भारततः जिलाधिकारी दुर्गा शक्ति नागपाल, अपरजिलाधिकारी नरेंद्र बहादुर सिंह, अपरपुलिसअधीक्षकः पवन गौतमः, उपजिलाधिकारी डॉ. अवनीशः, राजीव निगमः, ३९ बटालियनस्य कमाण्डेण्ट् आर्.के. राजेश्वरी, उपकमाण्डेण्ट् (ऑपरेशन) विजेन्द्र कुमार सिंह, ४९ बटालियनस्य कमाण्डेण्ट् शेर सिंह चौधरी, तृतीयबटालियनस्य सेकण्ड्-इन- कमाण्डेण्ट् एम्.डी. तमाङ्, ७० बटालियनस्य कमाण्डेण्ट् राजन श्रीवास्तवः, जिलाआबकारीअधिकारी राजवीर सिंहश्च उपस्थिताः आसन्।

नेपालतः कैलाली-मुख्यजिलाधिकारी हीरालाल रेग्मी, कञ्चनपुर-मुख्यजिलाधिकारी मदन कोइराला, कैलाली-सहायकमुख्यजिलाधिकारी किरण जोशी, कञ्चनपुर-सहायकमुख्यजिलाधिकारी मोहन चन्द्र जोशी, कैलाली-पुलिसअधीक्षकः नरेंद्र चन्दः, कञ्चनपुर-पुलिसअधीक्षकः खड्ग बहादुर खत्री, कैलाली-ए.पी.एफ्-पुलिसअधीक्षकः लोकेन्द्र देव भट्टः, कञ्चनपुर-ए.पी.एफ्-पुलिसअधीक्षकः सुरेन्द्र राज रञ्जितः, उप-अन्वेषण-निदेशकः महेश बोहरा, प्रकाश शाहः, मुख्यक्षेत्रीयप्रशासनाधिकारी तारा नाथ पनेरू, कैलाली-प्रशासनाधिकारी शिव राज जोशी, विभागाधिकारी कल्पना भट्टा च उपस्थिताः आसन्।

---------------

हिन्दुस्थान समाचार