Enter your Email Address to subscribe to our newsletters

तेहरान/वाशिंगटन, ०८ जनवरीमासः (हि.स.)। ईरान–देशे मूल्यवर्धनविरुद्धं गतदशदिनात् आरभ्य प्रवृत्तैः जनप्रदर्शनैः इस्लामिक–गणराज्यस्य शासनं महतीं समस्या: अनुभवति। जनतया सर्वोच्च–नेता अली–खामेनेई–विरुद्धं विद्रोहः आरब्धः। दक्षिण–ईरानस्य एकस्मिन् नगरे सुरक्षाबलैः प्रदर्शनकारिषु सम्मुखं गुटिकाः त्यक्ता:। कोम–नगरानन्तरं द्वितीये पवित्रे नगरे मशहद–नगरे स्थितिः नियन्त्रणातीताऽभवत्। क्रुद्धैः जनैः विशालः उच्चस्थः ध्वजः अवतारितः। खोरासान–प्रान्तस्य एकं राज्यपाल–भवनं दग्धं कृतम्। जनैः खामेनेई–विरुद्धं घोषणाः कृताः।अमेरिका–देशेन चेतावनी दत्ता यत् यदि प्रदर्शनकारिषु गुटिकाप्रहारः न विरमिष्यति, तर्हि परिणामः अतीव भीषणः भविष्यति। ईरान–इण्टरनेशनल–इति समाचार–संस्थया प्राप्त–चलचित्राधारे वर्तमान–परिस्थितेः प्रतिवेदनं प्रकाशितं, यस्मिन् अनेकासां घटनानां विवरणं कृतम्।
दक्षिण–ईरानस्य कङ्गन–नगरे गुटिकाप्रहारः
एकस्मिन् चलचित्र–दृश्ये दृश्यते यत् बुधवासरे सायं बुशहर–प्रान्तस्य कङ्गन–नगरे विरोध–प्रदर्शनसमये सुरक्षाबलैः प्रदर्शनकारिषु सरलं गोलिकाप्रहारः कृतः। मशहद–नगरे प्रदर्शनकारिभिः इस्लामिक–गणराज्यस्य ध्वजः अवतारितः। मशहद उत्तर–पूर्व–ईरानस्य पवित्रं नगरं मन्यते।उत्तर–पूर्व–ईरानस्य अशखानेह–नगरे राज्यपाल–कार्यालयं दग्धम्ईरान–इण्टरनेशनल–संस्थायै प्रेषिते चलचित्र–दृश्ये उत्तर–खोरासान–प्रान्तस्य अशखानेह–नगरे मानेह–समालकन–जनपदस्य राज्यपाल–कार्यालय–भवनम् अग्निज्वालाभिः आवृतं दृश्यते।एतस्मिन् काले एकः ईरानी–बलोच–राजनीतिक–समूहः बलोचिस्तान–पीपल्स–दलम् इति नाम्ना दक्षिण–पूर्व–ईरानस्य सिस्तान–बलोचिस्तान–प्रान्तस्य जनान् देशव्यापि–विरोध–प्रदर्शनेषु तथा विरुद्ध–आन्दोलनेषु सहभागं कर्तुम् आह्वयत्। समूहस्य वक्तव्ये उक्तम् -“देशव्यापि–विरोध–प्रदर्शनेषु सक्रिय–सहभागिता केवलं राजनैतिक–विकल्पः न, अपि तु स्वातन्त्र्यस्य, न्यायस्य, गरिमामय–जीवनस्य च प्राप्त्यर्थं ऐतिहासिक–आवश्यकता अस्ति।”निर्वासित–राजकुमारस्य प्रदर्शन–प्रोत्साहनम्पश्चिम–ईरानस्य इलम–नगरे प्रदर्शनकारिभिः बुधवासरे सायं मार्गेषु आगत्य खामेनेई–विरुद्धं घोषणाः कृताः।निर्वासितः राजकुमारः पहलवी–महाराजः अन्तर्जाल–सेवायाः अवरोध–संचेतनाय अपि ईरानी–जनान् विरोध–प्रदर्शनं निरन्तरं कर्तुम् आह्वयत्। सः विद्रोहे प्रत्येकं ईरानी–नागरिकस्य योगदानं प्रशंसितवान्। बुधवासरे सः एक्स–माध्यमे चलचित्र–सन्देशं प्रकाशितवान्, यस्मिन् अवदत्—“अस्माभिः सूचितं यत् शासनम् अतीव भयभीतम् अस्ति, पुनः अन्तर्जाल–सेवां निरोद्धुं प्रयासं करोति। किन्तु अस्माकं संवादः न निरुद्धः भविष्यति—यद्यपि ईरान–देशे लक्षशः स्टारलिंक–उपकरणानि प्रेषणीयानि स्युः।”
अशान्त्यै अमेरिका–देशस्योपरि आरोपाः
ईरान–विदेश–मन्त्रालयस्य प्रत्युत्तरम्
ईरान–देशस्य विदेश–मन्त्रालयेन अमेरिका–देशस्य टिप्पणयः “हस्तक्षेप–स्वरूपाः” तथा “अशान्ति–उत्पादन–उद्देश्येन प्रेरिताः” इति निर्दिष्टाः। वक्तव्ये उक्तम्—“ईरान–इस्लामिक–गणराज्यं संविधान–सिद्धान्तानुसारं शान्तिपूर्ण–विरोध–प्रदर्शनेभ्यः मान्यता ददाति।”तत्रैव आर्थिक–कठिनतानां कारणेषु अमेरिका–देशस्य प्रमुखं दायित्वम् अस्ति इति अपि उल्लेखः कृतः।राष्ट्रपतेः वक्तव्यम्राष्ट्रपतिः मसूद–पेजेशकियनः अधिकारिभिः शिक्षाविद्भिश्च सह आयोजितायां सभायाम् अवदत् यत् वर्तमान–स्थितेः नियन्त्रणस्य उत्तरदायित्वं सर्वेषां भवति। सः अवदत् यत् स्वस्य प्रशासनं तथा मजलिस–संसदः उभौ अपि तेषां विफलतानाम् उत्तरदायी स्तः, येन अशान्तिः प्रसृता।द्रष्टव्यं यत् आधिकारिक–वक्तव्येषु सर्वोच्च–नेता अली–खामेनेई–भूमिकायाः उल्लेखः न कृतः। विरोध–प्रदर्शन–विषये स्वस्य एकमात्र–हस्तक्षेपे खामेनेई–महाशयेन अधिकारिभ्यः नियन्त्रणम् अधिकं कठोरं कर्तुं निर्देशः दत्तः। प्रदर्शनकारिभिः तु खामेनेई मुख्य–लक्ष्यरूपेण निर्दिष्टः, येन सः सैन्य–साहसिक–नीतिभिः तथा क्षेत्रीय–प्रतिनिधि–समूहानां वित्तपोषणेन देशं दरिद्र–स्थितिं प्रति नीतवान् इति आरोपितः।
व्हाइट–हाउस–संचेतना
व्हाइट–हाउस–अधिकारी बुधवासरे अवदत् यत् यदि ईरान–देशः शान्तिपूर्ण–प्रदर्शनं बलप्रयोगेन दमनं करिष्यति, तर्हि परिणामः अतीव भीषणः भविष्यति।सः अवदत्—“राष्ट्रपतिना स्पष्टं कृतं यत् यदि शान्तिपूर्ण–प्रदर्शनकारिषु गुटिकाप्रहारः भविष्यति, तर्हि परिणाम: अत्यन्तं भीषण: भविष्यति।”अधिकारिणोक्तं यत् ऑपरेशन–मिडनाइट–हैमर तथा ऑपरेशन–एब्सोल्यूट–रिज़ॉल्व इत्येतयोः माध्यमेन राष्ट्रपतिः स्वस्य कथनस्य पालनं कृतवान् इति प्रमाणितम्।उल्लेखनीयं यत् गतदशदिनेषु सम्पन्नेषु कलहेषु न्यूनातिन्यूनं ३६ जनाः मृताः, येषु ३४ प्रदर्शनकारिणः तथा द्वौ सुरक्षाबल–सैनिकौ अन्तर्भूताः। २०००–अधिकाः जनाः गृहीता: सन्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता