Enter your Email Address to subscribe to our newsletters

राञ्ची, ०८ जनवरीमासः (हि.स.)।दिशोम–गुरोः शिबू–सोरेनस्य जन्मदिवस–अवसरे ११ जनवरी २०२६–तमे दिने राञ्ची–नगरे खेलग्राम–स्थिते टाना–भगत–क्रीडाङ्गणे “गुरुजी–विद्यार्थी–ऋण–कार्ड–योजना” विषयकः एकः संवाद–कार्यक्रमः आयोजितः भविष्यति। अस्मिन् कार्यक्रमे मुख्यमन्त्री हेमन्त–सोरेनः दशमी–द्वादशी–कक्षासु अध्ययनरतैः छात्रैः छात्राभिः च सह साक्षात् संवादं करिष्यति।कार्यक्रमस्य सिद्धतां प्रति उपायुक्त–मञ्जूनाथ–भजन्त्रिणः अध्यक्षतायां अधिकारिभिः सह एका सभा सम्पन्ना। अस्यां सभायां कार्यक्रमस्य सफलतया तथा सुव्यवस्थितरीत्या आयोजनाय चर्चाः कृताः।उपायुक्तः अवदत् यत् अस्य कार्यक्रमस्य माध्यमेन विद्यार्थिभ्यः गुरुजी–विद्यार्थी–ऋण–कार्ड–योजनायाः विस्तृता सूचना दीयते तथा योजनाया लाभ–प्राप्ति–प्रक्रिया अपि अग्रे नीयते। एषा योजना विद्यार्थिनाम् अग्रिम–अध्ययनाय आर्थिक–सहायतां दातुं प्रारब्धा अस्ति।उपायुक्तः कार्यक्रम–स्थले सुरक्षा–व्यवस्था, यातायात–नियोजनम्, वाहन–स्थापन–व्यवस्था (पार्किङ्ग), मञ्च–पण्डाल–निर्माणम्, उपवेशन–व्यवस्था, पेय–जल–व्यवस्था, शौचालय–व्यवस्था, स्वच्छता, विद्युत्–आपूर्ति, अग्नि–सुरक्षा, चिकित्सा–सुविधा तथा आपत्कालीन–सेवाः सुदृढतया सुनिश्चिताः भवन्तु इति निर्देशं दत्तवान्। सः अवदत् यत् सर्वे विभागाः परस्पर–समन्वयेन कार्यं कुर्वन्तु, येन कस्यापि प्रकारस्य असुविधा न भवेत्।तथैव छात्राणाम् आगमन–गमन–व्यवस्था, सरल–पञ्जीकरण–प्रक्रिया तथा योजनासम्बद्ध–आवश्यक–कर्गदानां पूर्वतया सिद्धता इति विषये अपि निर्देशाः दत्ताः। सर्वे अधिकारिणः स्व–स्व कर्तव्यं समये एव उत्तरदायित्वेन पूर्णं कुर्वन्तु इति अपि सूचितम्।
हिन्दुस्थान समाचार / अंशु गुप्ता